________________
८१ .
तृतीयपरिच्छेदः तृतीयार्थयुक्तो निर्दिष्टो वादिनेति । ननु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधनमाह । अनेकवादिसम्भवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् यद्येव वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुक्तेन । अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो नेतरो धर्म इत्युक्तं भवति । वा. दिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य वचनस्य फलमिति यावत् । अथ कस्मिन्सत्यन्यधर्मसाध्यत्वसंभवो यनिवृत्यर्थ चेदं वक्तमित्याह । तच्छास्त्रकारेणेति । बसावं तेन बादिनाभ्युपगतं तच्छास्त्रकारेण तस्मिन्साध्यामध्यनेकस्य धर्मस्याभ्युपगमे सत्यन्यधर्मसाध्यत्वसंभवः । तथा हि शास्त्र येनाभ्युपगत तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिरनेनापास्यते । अनेकधर्माम्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो नान्य इति ।
ननु च शास्त्रानपेक्षं वस्तुवलप्रवृतं लिङ्गम् । अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः । सत्यम् । आहोपुरु. षिकया तु यद्यपि कचिच्छास्त्रे स्थित इति किंचिच्छास्त्रमभ्युपगतः साधनमाह । तथापि य एव तेस्येष्टः स एव साध्य इति ज्ञापनायेदमुक्तम्
इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यस्तदाधिकरणत्वाद्विवादस्य ।
१ 'अपि' इति पदं ख० पुस्तके नास्त्येव । २ इदं पदं ख. पुस्तके न विद्यते।। ३ साध्यत्व० ख० साध्यत्वस्य । .. ४ वेद, ख० चैतत। . ५ 'तस्य' इति पदं ख० पुस्तके न विद्यते ।