SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुः त्वेन निर्दिष्टं तत्साधनत्वेनेष्टमसिद्धत्वाचं साध्यत्वेनापीष्टं तस्य निवृत्त्यर्थ एवशब्दः तदुदाहरति । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्व हेतुः । यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः ।। शब्देऽसिद्धत्वात्साध्यं न पुनस्तदिह साध्यत्वेनवष्टं साधनत्वनाप्यभिधानात् । शब्देऽसिद्धत्वात्साध्यमित्यनेन साध्यत्वेनेष्टिमाह । तदिति । चाक्षुषत्वमिहेति शब्दे न साध्यत्वनैवेष्टमिति । साध्यत्वेने. ष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीष्टम् । न साध्यत्वेनैवेति । स्वयमिति वादिना यस्तदा साधनमाह । एतेन यद्यपि कचिच्छास्त्रे स्थितसाधनमाह । तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति । ___ स्वयमित्यनेन स्वयंशब्दं व्याख्येयमुपक्षिप्य तस्यार्थमाह । वादिनेति । स्वयंशब्दो निपातः । आत्मन इति षष्ठयन्तस्यात्मनेति च तृतीयान्तस्यार्थे वर्तते । तदिह तृतीयान्तस्यात्मशब्दस्यार्थे वृत्तः स्वयंशब्दः । आत्मशब्दश्च सम्बन्धिशब्दो वादी च प्रत्यासन्नभूतो यस्य वादिन आत्मा तृतीयार्थयुक्तः स एवं • १ च' इति पदं ख० पुस्तके नैवावलोक्यते । २ उदाहरति, ख० उदाहरति यथेति । ३ तृतीयान्तस्यार्थे वर्तते, ख० तृतीयान्तस्यार्थेन युक्तः। ४ एव' इति पदं ख० पुस्तके न विद्यते ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy