SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः ૭૧ कीदृशः पुनरर्थः पक्ष इत्यनेन शब्देन निर्देश्यो वक्तव्य इत्याह । स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः पक्ष इति । स्वरूपेणैवेति । साध्येत्वनैव स्वयमिति वादिना इष्ट इति नो वापि विष्टोऽपीत्यर्थः । एवंभूतः सन्प्रत्यक्षादिभिरनिराकृतो योऽर्थः स पक्ष इत्युच्यते । अथ यदि न पक्षो निर्देश्यः कथमनिर्देश्यस्य लक्षणमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुक्तमपि त्वसाध्यं केचित्साध्यं साध्यं चासाध्यं म तिपन्नाः । तत्साध्यासाध्य विप्रतिपत्तिनिराकरणार्थ पक्षलक्षणमुक्तम् । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि । स्वरूपेणेष्ट इत्यस्य विवरणम् । साध्यत्वेनेष्ट इति पक्षस्य साध्यत्वान्नापरमस्तिरूपम् । अतः स्वरूपं साध्यत्वमिति । एवशब्दं विवरीतुमाह । स्वरूपेणैवेति । ननु चैवशब्दः केवल एव प्रत्यवमष्टव्यस्तत्किमर्थ स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एवशब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेषं द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्साधन १ मुद्रित पुस्तकस्य 'इष्टो निराकृतः' इति पाठोऽशुद्धः प्रतीयते । २ क० साध्यत्वेनैवास्वयमिति । ३ अर्थः, ख० अर्थो यः । ४ असाध्यं केचित्साध्यं साध्यं चासाध्यं प्रतिपन्नाः ख० अ साध्यं किंचित्साध्यं साध्यं चासाध्य केचित्प्रतिपन्नाः । ५ तत्किमर्थम्, ख० तत्कथम् ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy