________________
७८
न्यायविन्दुः व्याप्तो दर्शितः। नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते
सामर्थ्यादेव नेह घट इति भवति । नोपलभ्यत इत्यादिना साध्यधमिणि सत्वं लिङ्गस्य दर्शितम् । यदि च साध्यधर्मस्तत्र साध्यधामणि न भवेत्साधनधर्मोनि न भवेत् । साध्यनियतत्वात्तस्य साधनधर्मस्येति सामर्थ्यम् । - तथा वैधर्म्यवत्प्रयोगेऽपि यः सद्वयवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव न तथात्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्व्यवहारविषय इति भवति ।
यथा साधर्म्यवत्प्रयोगे तथा वैर्धम्यवत्प्रयोगेऽपि सामर्थ्यादेव नेह सद्व्यवहारविषयोऽस्ति घट इति भवति । सामर्थ्य दर्शयितुमाह । यः सद्वयवहारविषय इति । विद्यमानः। उपलब्धिलक्षण प्राप्त इति । दृश्यः । इत्येषा साध्यनिवृत्तिरुपलभ्यत एवेति साधननिवृत्तिरित्यनेन न साध्यनिवृत्तिः साधननिवृत्त्या व्याप्ता दर्शिता । न तथेति । यथान्यो दृश्य उपलभ्यते न तथात्र प्रदेशे तादृश इति दृश्यो घट उपलभ्यत इत्यनेन साध्यनिवृत्तेापिका साधननिवृत्तिरसती साध्यधर्मिणि दार्शता ।
कीदृशः पुनः पक्ष इति निर्देश्यः । यदि च न साध्यधर्मः साध्यधामणि भवेत्साधनधर्मोऽपि न भवेदस्ति च साधनधर्म इति सामर्थ्यात्ततः सामर्थ्यान्नास्त्यत्र घट इति प्रतीतेने पक्षनिर्देशः । एवं कार्यस्वभावहेत्वोरपि सामत्सिंप्रत्यय इति न पक्षानिर्देशः ।