________________
तृतीयपरिच्छेदः लब्धिलक्षणप्रासमिति । साध्यस्यासद्वयवहारयोग्यत्वस्य निवृत्तिदृश्यसत्वरूपमाह । तदुपलभ्यत एवेति । अनुपलम्भस्य नि. वृत्तिमुपलम्भरूपामाह । तदनेन साध्यनिवृत्तिः साधननिवृत्या व्याप्ता दर्शिता। यदि च साधनसंभवेऽपि साध्यनिवृत्तिर्भवेन साधनाभावेन व्याप्ता भवेत् । अतो व्याप्ति प्रतिपद्यमानेन साधनसंभवः साध्यसंभवेन व्याप्तः प्रतिपत्तव्यः । अत एवाहानुपलभ्यमानतादृशमिति । दृश्यमसदिति प्रतीतेः संप्रत्ययादन्व. यसिद्धिरिति ।
द्वयोरप्यनयोः प्रयोगेऽवश्यं पक्षनिर्देशः ।
यतश्च साधनं साध्यधर्मप्रतिवद्धं तादात्म्यतदुत्पत्तिभ्यां प्रतिपत्तव्यं द्वयोरपि प्रयोगयोस्तस्मात्पक्षोऽवश्यमेव न निर्देश्यः। . यत्साधन साध्यनियतं प्रतीतं तत एव साध्यधर्मिणि दृष्ट्वा साध्यप्रतीतिरतो न किंचित्साध्यनिर्देशेनेत्येवमेवार्थमनुपलब्धिप्रः योगे दर्शयति । यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्त
सन्नोपभ्यते सोऽसद्व्यवहारविषयः । . साधर्म्यवति प्रयोगेऽपि सामर्थ्यादेव नेह घट इति भवति । किं पुनस्तत्सामर्थ्यमित्याह । यदुपलब्धिलक्षणप्राप्तमिति । अनुपलम्भानुवादः सोऽसद्वयवहारविषय इत्यसयवहारयोग्यत्वविधिः । तथा च सति दृश्यानुपलम्भोऽसद्वयवहारयोग्यत्वेन १० व्याप्तिप्रतिपद्यमानेन ।
२ पदमिदं क० पुस्तके न विद्यते । . ३ ख. पुस्तकस्य पाठः 'प्रयोगयोः' इत्यस्मादारभ्य 'घट इति प्रवति' पर्यन्तं न सम्यक्पठयते । । ४ यदुपलब्धिलक्षणप्राप्तमिति, ख० यदुपलब्धिलक्षणप्रासं स. होपलभ्यत इति ।