________________
न्यायबिन्दुः नम् । यञ्च तदाक्षिप्तमतिबन्धोपदर्शनं तदेवान्वयवचनम् प्रतिबन्धश्चेदवश्यं दर्शयितव्यः । न वक्तव्यस्तयन्वयः ।
यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यवाक्यद्वयप्रयोगः ।
यस्मादृष्टान्ते प्रमाणेन प्रतिबन्धो दर्यमान एवान्वयो नापरः कश्चित्तस्मानिव-निवर्तकप्रतिबन्धो ज्ञातव्यः । तथा चान्वय एव ज्ञातो भवति । इतिशब्दो हेतौ । यस्मादन्वये व्य. तिरेकगतिर्व्यतिरेके चान्वयगतिस्तस्मादेकेनापि सपक्षे चासपक्षे च सत्त्वासत्वयोः ख्यापनं कृतम् । अन्वयो मुखमुपायोऽभिधेयत्वाधस्य तदन्वयमुखं वाक्यम् । एवं व्यतिरेको मुखं यस्येति । इति हेतौ । यस्मादेकेनापि वाक्येन द्वयगतिस्तस्मा. देकस्मिन्साधनवाक्ये द्वयोरन्वयव्यतिरेकवाक्ययोरवश्यमेव प्रयोगो न कर्तव्यः । अर्थगत्यर्थो हि शब्दप्रयोगः । अर्थश्चेदव. गतः किं शब्दप्रयोगेण । एकमेव त्वन्वयवाक्यं व्यतिरेकवाक्यं वा प्रयोक्तव्यम् ।
अनुपलब्धावपि यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवेत्युक्तेऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः।
अनुपलब्धावपि व्यतिरेकेणोक्तेनान्वयगतिः। यत्सदुप१ निवर्त्यनिवर्तक०, ख० निवर्त्य निवर्तकयोः । २ अन्वये, ख० अन्वयेऽपि। ३ क० इतिकरणो हेतौ। ४ "तु" इति पदं ख० पुस्तके नास्त्येव । ५ उक्तेन, ख० युक्तेन ।