SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः मिति हेतुसंभवे साध्यसंभव इत्याह. न हि स्वभावप्रतिबन्धे सत्येकस्य निवृत्तावप- रस्य नियमेन निवृत्तिः । नहीति । स्वभावेन प्रतिबन्धो यस्तस्मिन्नसत्येकस्य साध्यस्य निवृत्या नापरस्य साधनस्य नियमेन युक्ता नियमवती निवृत्तिः । स च द्विप्रकारः । सर्वस्य तादात्म्यलक्षणस्तदुत्प त्तिलक्षणश्चेत्युक्तम् । स च स्वभावप्रतिबन्धो द्विप्रकारः सर्वस्य । तादात्म्य लक्षणं निमित्तं यस्य स तथोक्तः । तदुत्पत्तिलक्षणं निमित्तं यस्य स तथोक्तः । यो यत्र प्रतिबद्धस्तस्य स प्रतिबन्धविषयोऽर्थः स्व. भावः कारणं वा स्यात् । अन्यस्मिन्प्रतिबद्धत्वानुपपत्तेः। तस्माहिमकारः स इत्युक्तम् । स च साध्येऽर्थ लिङ्गस्येत्यत्रान्तरेऽभिहितः । तेन हि निवृत्तिं कथयता प्रतिबन्धों दर्शनीयः । हिर्यस्मादर्थे । यस्मात्स्वभावप्रतिबन्धे निवर्त्यनिवर्तकभावस्तेन साध्यस्य निवृत्तौ साधनस्य निवृत्तिं कथयता प्रतिबन्धो निवर्त्यनिवर्तकयोदर्शनीयः। तस्मान्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यदि हि साधनं साध्ये प्रतिबद्धं भवदेवं साध्यनिवृत्ती तंत्रियमेन निवर्तेत । यतश्च तस्य प्रतिबन्धो दर्शनीयस्तस्मा. साध्यनिवृत्तौ यत्साधननिवृत्तिवचनं तेनाक्षिप्त प्रतिवन्धोपदर्श१ ख. सर्वस्य प्रतिबद्धस्य । २'तत्' इति पदं ख. पुस्तके नोपलभ्यते । ३ ख० तेनाक्षिप्तं प्रतिबन्धोपदर्शनम् तदेवान्वयवचनम् ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy