________________
७४
न्यायविन्दुः र्थादिति सामर्थ्याद्वैधर्म्यस्य व्यतिरेकस्य गतिर्भवतीति । हीति यस्मात् । तस्मात्रिरूपलिङ्गाख्यानमेतत् । यदि नाम व्यतिरेको ऽन्वयवति नोक्तो तथाप्यऽन्वयवचनसमादेवावसीयते । क; थम्? असति तस्मिन्व्यतिरेके बुद्धयध्यवसिते साध्येन हेतोरन्वयस्य बुद्धावसितस्याभावात् । साध्ये नियतं साधनमन्वय वाक्यादवस्यता साध्याभावे साधनं नाशङ्कनीयम् । इतरथा साध्यनियतमेव न प्रतीतं स्यात्साध्याभावे च साधनाभावगतिर्व्यतिरेकगतिः । अतः साध्यनियतस्य साधनस्याभिधानसामर्थ्यां दन्वयवाक्येऽवसितो व्यतिरेकः । तथा वैधयेणाप्यन्वयगतिः । असति तस्मिन्सा
ध्यभावे हेत्वभावस्यासिद्धेः । तथेति । यथान्वयवाक्ये वथार्थादेव वैधhण प्रयोगेऽन्त्रयस्यानभिधीयमानस्यापि गतिः । कथमसति तस्मिन्नन्वये बु. द्धिगृहीते ते सोध्याभावे हेत्वभावस्यासिद्धेरनवसायात् । हेत्वभावे साध्याभावं नियतं व्यतिरंकवाक्यादवस्यता हेतुसंभवे साध्याभावो नाशङ्कनीयः । इतरथा हेत्वाभावे नियतः साध्याभावो न स्यात्प्रतीतः । हेतुसत्त्वे च साध्यसत्त्वगतिरन्वयगतिः । अतः साधनाभावनियतस्य साध्याभावस्याभिधानसामोद्यतिरेकवाक्येऽन्वयगतिः ।
यदि नामाकाशादा साध्याभावे साधनाभावस्तथापि कि
१ 'इति' इति पाठो ख० पुस्तके नैवोपलभ्यते । २ख० तथाप्यन्वयवचनसामांत। ३ क० व्यतिरेक० । ४ ख० वुद्ध्यवसितस्य। ५ पदमिदं ख० पुस्तके नाक्लोक्यते । ६ क० साध्यसरवं ।