________________
९२
न्यायबिन्दुः
आश्रयणासिद्धमुदाहरति
यथेह निकुञ्जे मयूरः केकायितादिति ।
यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यइनिर्गतेन प्रच्छादितो भूभागो निकुञ्जः । मयूर इति साध्यम् । कायितादिति हेतुः । कायितं मयूरध्वनिः ।
कथमाश्रयणासिद्ध इत्याहतदापातदेशविभ्रमे ।
तदापति इति । तस्य केकायितस्यापात आगमनं तस्य देशः स उच्यते । यस्माद्देशादागच्छति केकायितम् । तस्य विभ्रमेव्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुखेषु सत्सु यदा केकायितापातविभ्रमः किमस्मान्निकुञ्जत्केकाचितमागतमाहोस्विदस्मादिति तदाश्रयणासिद्ध इति ।
धर्मिणो सिद्धावप्यसिद्धत्वमुदाहरति
-
धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति
साध्ये सर्वत्रोपलभमानगुणत्वम् ।
यथेति । सर्वस्मिन्गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्येरन् । तस्मात्सर्वगत आत्मा । तदिह बौद्धस्यात्मैव न सिद्धः किमुत
१ क० तघात |
२ के कायितापातविभ्रमः, ख० केकायितापात निकुंजे विभ्रमः । ३ अस्मात्, ख० अन्यस्मात् ।