SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७२ न्यायबिन्दुः र्मिणि पक्षधर्मोपसंहारः । इहापीति । न केवलं स्वभावहताविहापि कार्य सिद्ध एवेति । निश्चिते कार्यकारणत्वे कार्यकारणत्वनिश्रयो वश्यकर्तव्यः । यतो न योग्यतया हेतुर्गमकोऽपि तु नान्तरीयकत्वादित्युक्तम् । साधर्म्यवान्स्वभावकार्यानुपलम्भानां प्रयोगो दर्शितः । वैधर्म्यवन्तं दर्शयितुमाह वैधर्म्यवतः प्रयोगो यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः । वैधर्म्यवत इति । यत्सदुपलब्धिलक्षणप्राप्तमिति । यत्सदृश्यमित्यस्तित्वानुवादः । तदुपलभ्यते इति उपलम्भविधिः । तदनेन दृश्यस्य सखं दर्शनविषयत्वेन व्यासं कथितमसत्वनिवृत्तिश्च । सच्चनुपलम्भनिवृचिचोपलम्भः । तेन साध्यनिवृत्यनुवादेन साधननिवृत्तिर्विहिता । तथा च साध्यनिवृत्तिः साधननिवृत्तौ नियतत्वात्साधन निवृत्या व्याप्ता कथिता । यदि च धर्मिणि साध्यधर्मो न भवेद्धेतुरपि । हेत्वभावेन साध्याभावस्य व्याप्तत्वात् । अस्ति च हेतुरतो व्यापकस्य साधनाभावस्याभावाद्वयायस्य साध्याभावस्याभाव इति साध्यनिश्चयो भवति । ततो वैधर्म्यप्रयोगे साधनाभावे साध्याभावो नियतो दर्शनीयः सर्वत्रेति न्यायः । १ कार्यहेतो, ख० कार्यहेतोः” । २ कार्यकारणत्व०, ख० कार्यकारणभाव० । ३ 'हेतुरपि' इति पाठः क० पुस्तके नोपलभ्यते । ४ नियतः ख० नियमः ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy