SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः पत्रस्य चैक्यं भवेत् , एकस्यैवार्थस्य भावाभावौ स्याता युगपन च विरुद्धयोर्भावाभावायोरैक्यं युज्यते । विरुद्धधर्मसंसर्गात्मकत्वादेकत्वाभावस्य । किं च पश्चादुत्पद्यमानं पूर्वनिष्पनाद्भिन्नहेतुकम् । हेतुभेदपूर्वकश्च कार्यभेदः । ततो निष्पनानिपन्नयोविरुद्धधर्मसंसर्गात्मको भेदो भेदहेतुश्च कारणभेद इति कुत एकत्वम् । तस्मात्साधनधर्ममात्रानुबन्ध्यव साध्यः स्वभावो नान्यः । मा भूत्पश्चानिष्पन्नः पूर्वजस्य स्वभावः । साध्यस्तु कस्मान भवतीत्याह । पूर्वजेन पश्चानिष्पत्रस्य व्यभिचार: परित्यागो यस्तस्य संभवाच । न पूर्वनिष्पन्नस्य पश्चानिष्पन्नः साध्यः । तस्मात्साधनधर्ममात्रानुबन्ध्येव स्वभावः । स एव च साध्यः । तथा च सिद्धसाधनधर्ममात्रानुबन्ध एव स्वभावहेतबा प्रयोक्तव्या इति स्थितम् । कार्यहेतोरपि प्रयोगः यत्र धूमस्तत्राग्निर्यथा महानसादावस्ति चेह धूम इति । इहापि सिद्ध एव । कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः । कार्यहेतोः प्रयोगः साधर्म्यवानिति प्रकरणादपेक्षणीयम् । यत्र धूम इति । धूममनूय तत्राग्निरित्यग्नोर्वधिः । तथा च नियमार्थः पूर्ववदनुगन्तव्यः । तदनेन कार्यकारणभावनिमित्ता व्याप्तिर्दर्शिता । व्याप्तिसाधनप्रमाणविषयं दर्शयितुमाह । यथा महानसादाविति । महानसादौ हि प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावात्माविनाभावो निश्चितः । अस्ति चेहेति । साध्यध १ स्वभावः। स एव च साध्यः । तथा च सिद्धसाधन, ख० या स्वभावः स एव च साध्यस्वभावः सिद्धसाधन०। २ स्वभावहेतवः, ख. स्वभावे स्वभावहेतवः। ३ अने, ख. अग्नि।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy