________________
'न्यायविन्दुः
इंह हेतुः प्रक्रान्तः । तस्मात्स एव साध्यः कर्तव्यः । यः साध. नस्य स्वभावः स्यात्साधनधर्ममात्रानुवन्धेश्च स्वभावो नान्यः । ___ यदि साध्यधर्मः साधनस्य स्वभावः/प्रतिज्ञार्थंकदेशस्तर्हि हेतुः स्यादित्याह । वस्तुतस्तयोस्तादात्म्यात्तन्निष्पत्तावनिष्पन्नस्य तत्स्वभा
वत्वाभावाद्व्यभिचारसंभवाच्च । वस्तुत इति । वस्तुतः परमार्थतः साध्यसाधनयोस्तादा. त्म्यम् । समारोपितस्तु साध्यसाँधनयोर्भेदः । साध्यसाधनभावो हि निश्चयारूढे रूपे । निश्चयारूढं च रूपं समारोपितेन भेदेनेतरव्यात्तिकृतेन भिन्नमित्यन्यत्साधनमन्यत्साध्यम् । दूराद्धि शाखादिमानर्थो वृक्ष इति निश्चीयते न शिंशपेति । अथ च स एवं वृक्षः । सैव शिंशपा । तस्मादभिन्नमपि वस्तु निश्चयो भिन्नमादर्शयति व्यावृत्तिभेदेन । तस्मानिश्चयारूढरूपापेक्षयान्यत्साधनमन्यत्साध्यम् , अतो न प्रतिज्ञार्थंकदेशो हेतुर्वास्तवं च तादात्म्यमिति । कस्मात्पुनः साधनधर्ममात्रानुबन्ध्ये साध्यः स्वभावो नान्य इत्याह । तनिष्पत्ताविति । यो हि यन्नानुबध्नाति स तनिष्पत्तावनिष्पन्नः । तस्य तन्निष्पत्तावनिष्पन्नस्य साधनस्वभावत्वमयुक्तम् । यतो निष्पत्यनिष्पत्ती भावाभावरूपे । भावा. भावौ च परस्परपरिहारेण स्थितौ। यदि च पूर्वनिष्पन्नस्यानि
१ इह, ख. एव । २ अनुबन्धश्च स्वभावः, ख० ०अनुबन्धवांश्च भावः। ३ साध्यसाधनयोः, ख० साध्यसाधनभेदः।
४ 'अर्थो'इत्यस्य स्थाने मुद्रितपुस्तके 'अयो' इति पाठः विद्यते । यश्चास्माकं सम्मती अशुद्धः एव ।
५ अनुबन्ध्येव, ख० अनुबंधे च । ६ क० स तन्निष्पत्तावनिष्पन्नस्य साधन।