________________
तृतीयपरिच्छेदः
बहुवचननिर्देशः । गमयितव्यत्वात्साध्यः पराश्रितत्वाच्च धर्मः साध्यधर्मस्तदयं परमार्थः । न हेतुः प्रदीपवद्योग्यतया गमको ऽपि तु नानन्तरीयकतया विनिश्चितः । साध्याविनाभावित्वनिश्वयनमेव हि' हेतोः साध्यप्रतिपादन व्यापारो नान्यः कश्चित् । प्रथमं वाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः पुनरनुमानकालेन साधनं साध्यानन्तरीयकं सामान्येन स्मर्तव्यम् । कृतकत्वं नामानित्यत्वस्वभावमिति सामान्येन स्मृतंमर्थं पुनर्विशेषे योजयतीदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति । तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दग तकृतकस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सत्यविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चितन्मात्रानुबन्धिसाध्यधर्मे स्वभावहेतवः प्रयोक्तव्या नान्यत्रेत्युक्तम् ।
यद्येवं संबन्धो निश्वेतव्यः । साध्यस्य साधनेन सह | साधनधर्ममात्रानुबन्धस्तु साध्यस्य कस्मान्निश्चितो मृग्यत इत्याह । तस्यैवेति । सिद्धसाधनधर्ममात्रानुबन्धस्य |
तत्स्वभावत्वात्स्वभावस्य च हेतुत्वात् ।
अ
तत्स्वभावत्वादिति । साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान्स एव तस्य साधनधर्मस्य - स्वभावो नान्यः । भवत्वीदृश एव स्वभावः । स्वभाव एव तु साध्ये कस्माद्धेतुप्रयोगः । स्वभावस्य हेतुत्वात् । स्वभाव
१ 'हि' इति पाठः ख० पुस्तके नैवोपलभ्यते ।
२ स्मृतमर्थम्, ख० स्मृतमर्थाय ।
३ नायं 'तस्यैवेति' मूलेऽवलोक्यते । तस्मादस्माकं सम्मतौ कि. शिब्छब्दं वाक्यं वाऽऽत्र परित्यक्तम् मूलपुस्तकस्य
लेखकेन प्रमा
वशात् ।