SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ .. . - न्यायविन्दुः न्तरीयकत्वादनित्यत्वं साध्यते / तत्र प्रत्ययभेदशब्दो व्यति. रिक्तविशेषणाभिधायी प्रत्ययभेदभेदिशब्द प्रयुक्तः / प्रयत्नानन्तरीयकशब्दे च प्रयत्नशब्दः / तदेवं त्रिविधः स्वभावहेतुप्रयोगो दर्शितः / शुद्धोऽव्यतिरिक्तविशेषणो व्यतिरिक्तविशेषणश्च / एवमर्थं चैतदाख्यातम् / वाचकभेदान्मा भूत्कस्यचित्स्वभावहे. सावपि प्रयुक्त व्यामोह इति / सन्नुत्पत्तिमान्कृतको वा शब्द इति पक्षधर्मोपदर्शन। . सर्व पते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मेऽवगन्तव्याः / अव किमेते स्वभावहेतवः सिद्धसंबन्धे स्वभावे साध्ये प्रयोतव्याः,आहोस्विदसिद्धसंबन्ध इत्याशङ्कय सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितुमाह / सर्व एत इति / गमेकत्वात्साधनानि पराश्रितत्वाच धर्माः साधनधर्मा एत साधनधर्ममात्रम् / मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः। तस्यानुबन्धोऽनुगमनमन्वयः सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः। केन सिद्ध इत्याह / यथा स्वं प्रमाणेरिति / यस्य साध्यधुर्मस्य यदात्मीय प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः / स्वभावहेतूनां च बहुभे. दत्वात् / संबन्धसाधनान्यपि प्रमाणानि वहूनीति प्रमाणैरिति 1 पदमिदं ख० पुस्तके नैवोपलभ्यते / २०प्रयोगः, ख ०योगः / 3 एवमथे, ख० एतदर्थम् / 4 किञ्चिदपि टीकाकारणास्योपरि न लिखितम् / / 5 गमकत्वात् , क. गमत्वात् / / 6 इति' इति पाठः ख० पुस्तके नोपलभ्पते / ७पाठोऽयं ख० पुस्तके नोपलभ्यते /
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy