________________ तृतीयपरिच्छेदः अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति / अपेक्षितेति / परेषां कारणानां व्यापारः स्वभावस्य नि. पत्तौ निष्यत्यर्थमपेक्षितः परव्यापारो येन स तथोक्तः / हीति यस्मादर्थे / यस्मादपेक्षितपरव्यायारः कृतक उच्यते तस्माद्यति. रिक्तेन विशेषणेन विशिष्टः स्वभाव उच्यते / यद्यपि व्यतिरिक्तं विशेषणपदं नं प्रयुक्तं तथापि कृतकशन्देनैव व्यतिरिक्त विशेष णमन्तर्भावितमत एव संज्ञाप्रकारोयं कृतकशब्दः / यस्मात्संज्ञायामयं कन्प्रत्ययो विहितः / यत्र च विशेषणमन्तर्भाव्यते तत्र विशेषणपदं न प्रयुज्यते / कचित्प्रतीयमानं विशेषणं यथा - त इत्युक्ते हेतुभिरित्येतत्प्रतीयते / तत्र चे हेतुशब्दः प्रयुज्यते / कदाचिन वा प्रयुज्यते / प्रयुज्यमानस्वशब्दश्च यथा प्रत्येयभेदभदिशब्दे प्रत्ययभेदः। एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः / यथा च कृतकशब्दो भिन्नविशेषणस्वभावाभिधाय्येवं त्ययभेदभेदित्वमादिर्येषां प्रयत्नानन्तरीयकत्वादीनां तेऽपि वभावहेतोः प्रयोगा भिन्नविशेषणस्वभावाभिधायिनो द्रष्टव्याः / त्ययानां कारणानां भेदो विशेषस्तेन प्रत्ययभेदेन भेत्तुं शीलं स्य स प्रस्ययभेदभेदी शब्दस्तस्य भावः प्रत्ययभेदभेदित्वम् / तः प्रत्ययभेदभेदित्वाच्छब्दस्य कृतकत्वं साध्यते / प्रयत्नान. 1 कृतकस्य लक्षणमिदम् / 2 न, ख० न च / 3 विशेषणं, ख विशेषणपदम् / 4 इदं पदं ख० पुस्तके न विद्यते / ५प्रत्ययभेदभेदिशब्दे, स्व. प्रत्ययभेवशम् /