SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः त्पत्तिमत् । उत्पत्तिमत्त्वमनूद्य तदनित्यमित्यनित्यत्वविधैः । तथा च सत्युत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । स्वभावभूतः स्वभावात्मको धर्मस्तस्य भेदेन भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नेभ्यो हि व्यावृत्तिमाश्रित्योत्पन्नो भाव उच्य. ते । सैव व्यावृत्तिः । यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते । भावस्योत्पत्तिरिति । तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तूत्पत्तिमद्रुक्तम् । तेन स्वभा- . वभूतेन धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । यत्कृतकमिति । कृतकत्वमनूद्यानित्यत्वं विधीयत इति । अनित्यत्वे नियतं कृतकत्वमुक्तमतो व्याप्तिरनित्यत्वेन कृतकस्य दर्शिता । उपाधिभेदेन स्वभावस्य प्रयोग इति संबन्धः । उपा. धिर्विशेषणम् । तस्य भेदेन भिन्नेनोपाधिना विशिष्टः स्वभावः प्रयुक्त इत्यर्थः । इह कदाचिच्छुद्ध एवार्थ उच्यते । कदाचिदव्यतिरिक्तेन विशेषणेन विशिष्टः । कदाचियतिरिक्तेन । देवदत्त इति शुद्धः। लम्बकर्ण इत्यभिन्नकर्णद्वयविशिष्टः । चित्रगुरिति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत्सत्वं शुद्धमुत्पत्तिमत्त्वमव्यतिरिक्तविशेषणम् । कृतकत्वं व्यतिरिक्तविशेषणम् । ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकश्चित्रशब्दो गोशब्दश्वास्ति । कृतकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोस्तीत्याशङ्कयाह । १ उत्पत्तिमत् ।, क० उत्पत्तिमत् । यदुत्पत्तिमदिति । २०विधेः , ख० विधिः। ३ नियतं व्याप्तमित्यर्थः। ४ अनित्यत्वे, क० अनियतत्वे।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy