SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः ... नोपलभ्यते चेति । प्रदेश एकदेशः पृथिव्याः । स एव विशिष्यतेऽन्यस्मादिति विशेषः। एकः प्रदेशविशेष इत्येकस्मिन्प्रदेशे क्वचिदिति । प्रतिपत्तुः प्रत्यक्ष एकोऽपि प्रदेशः स एवाभावव्यवहाराधिकरणं यः प्रतिपत्तुः प्रत्यक्षो नान्यः । उपलब्धिलक्षणप्राप्त इति दृश्यः। यथा चासतोऽपि घटस्य समारोपितमुपलब्धिलक्षणप्राप्सत्वं तथा व्याख्यातम् । स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुमाह तथा स्वभावहेतोः प्रयोगः यत्सत्तत्सर्वमनित्यं यथा घटादिरिति । तथेति । यथानुपलब्धेस्तथा स्वभावहेतोः साधर्म्यवान्प्रयोग इत्यर्थः । यत्सदिति सत्त्वमनूद्य तत्सर्वमनित्यमित्यनित्यत्वं विधीयते । सर्वग्रहणं च नियमार्थम् । सर्वमनित्यं न किंचिनानित्यं यत्सत्तदनित्यमेवानित्यत्वादन्यत्र नित्यत्वे सत्वं नास्तीत्येवं सत्त्वमनित्यत्वे साध्ये नियतं ख्यापितं भवति । तथा च पति व्याप्तिप्रदर्शनवाक्यमिदम् । यथा घटादिरिति । व्याप्तिसाधनस्य प्रमाणस्य विषयकथनमेतत् । शुद्धस्य स्वभावहेतोः प्रयोगः । शुद्धस्येति । निर्विशेषणस्य स्वभावस्य प्रयोगः।। सविशेषणं दर्शयितुमाह यदुत्पत्तिमत्तदनित्यामिति । यदुत्पत्तिमदिति । उत्पत्तिः स्वरूपलाभो यस्यास्ति तदु. १ बौद्धनये यत्सत्तत्सर्वमनित्यं घटादिवत् । न किचिवस्तु तेषां ते नित्यमस्ति। २ प्रयोगः। सविशेषणं, ख० प्रयोगस्य विशेषणम् । ३ यस्य, ख० स यस्य ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy