________________
. न्यायविन्दुः तत्रेति । तयोः साधर्म्यवैधर्म्यवतोरनुमानयोः साधर्म्यव. तावदुदाहरणमुदाहर्तुमनुपलब्धिमाह । यदित्यादिना । यदुपल. ब्धिलक्षणप्राप्तं यदृश्यं सन्नोपलभ्यत इति । अनेन दृश्यानुपलम्भोऽनूयते । सोऽसद्वयवहारस्य विषयः सिद्धः। तदसदिति व्यवहर्तव्यमित्यर्थः । अनेनासद्वयवहारयोग्यत्वस्य विधिः कृतः । ततश्वासद्व्यवहारस्य योग्यत्वे दृश्यानुपलम्भो नियतः कथितः। दृश्यमनुपलब्धमसद्व्यवहारयोग्यमेवेत्यर्थः । साधनस्य च साध्ये. ऽर्थे नियतत्वकथनं व्याप्तिकथनम् । यथोक्तम् । व्याँप्तिापकस्य तत्र भाव एव व्याप्यस्य चे तत्रैव भाव इति ।
व्याप्तिसाधनस्य प्रमाणस्य विषयो दृष्टान्तस्तमेव दर्शयितु. तुमाह
यथान्यः कश्चिदृष्टः शशविषाणादिः । यथान्य इति । साध्यधर्मिणोऽन्यो दृष्टान्त इत्यर्थः । दृष्ट इति प्रमाणेन निश्चितः । शशविषाणं हि न चक्षुषा विषयीकतम् । अपि तु प्रमाणेन दृश्यानुपलम्भेनासद्व्यवहारयोग्यं विज्ञातम् । शशविषाणमादिर्यस्यासद्व्यवहारविषयस्य स तथोतः । शशविषाणादौ हि दृश्यानुपलम्भमांत्रनिमित्तोऽसद्व्यवहारः प्रमाणेन सिद्धः । तत एव प्रमाणादनेन वाक्येनाभिधी. यमाना व्याप्तिोतव्या । । संप्रति व्याप्ति कथयित्वा दृश्यानुपलम्भस्य पक्षधर्मत्वं द. शयितुमाह-- नोपलभ्यते च कचित्प्रदेशविशेष उपलब्धि
लक्षणप्राप्तो घट इति । १ 'उदादरणमुवाहतुं इति पाठो ख.पुस्तक एवोपलभ्यते,अन्यत्र तु 'उदाहरन्' इत्यवास्ति। २ पदमिदं ख० पुस्तके नोपलभ्यते ।
३ योग्यत्वस्य, ख. योग्यत्वे। ४ व्याप्तिः, क० व्याप्ति। ५च, क० घा। ६ शशविषाणादिः। ७मात्र, ख० मात्रः।