________________
तृतीयपरिच्छेदः न्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधर्म्यमभिधेयं तद्वैधर्म्यवत् । यथा यन्नित्यं तदकृतकं दृष्टं यथाकाशम् । शब्द. स्तु कृतक इति । कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् । ___ यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमभिन्न प्रकाश्यमित्याह- नानयोरर्थतः कश्चिद्भेदोऽन्यत्र प्रयोगभेदात् ।
नानयोरर्थत इति । अर्थः प्रयोजनं प्रकाशयितव्यं वस्तु यदुद्दिश्यानुमाने प्रयुज्यते । ततः प्रयोजनार्दनयोन भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्यते प्रयुज्येते । द्वाभ्यामपि त्रिरूपं लिङ्ग प्रकाश्यत एव । ततः प्रकाशयितव्यं प्रयोजनमनयोरभिन्नम् । तथा च न ततो भेदः कश्चित् । अभिधेयभेदोऽपि तर्हि न स्यादित्याह । अन्यत्र प्रयोगभेदादिति। प्रयोगोऽभिधानं वाचकत्तम् । वाचकत्वभेदादन्यो भेदः प्रयो. जनकृतो नास्तीत्यर्थः । एतदुक्तं भवति । अन्यदभिधेयमन्यत्मकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते । प्रका. श्यं त्वभिन्नम् । अन्वये हि कथिते वक्ष्यमाणेन न्यायेन व्यतिरेकगतिर्भवति । व्यतिरेके चान्वयगतिः । ततस्विरूप लिङ्गं प्र. काश्यमभिन्नम् । न च यत्राभिधेयभेदस्तत्र सामर्थ्यगम्योऽप्यर्थो भिद्यते । यस्मात्पीनो देवदत्तो दिवा न भुते। पीनो देवदत्तो रात्रौ भुत इति । अनयोर्वाक्ययोरभिधेयभेदेऽपि गम्यमानमेकमेव । तद्वदिहाभिधेयभेदेऽपि गम्यमानं वस्त्वेकमेव । तत्र साधर्म्यवद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो
ऽसद्व्यवहारविषयः सिद्धः । १ ख० 'अर्थः प्रयोजनं यत्प्रयोजनं प्रकाशयितव्यं वस्तु उद्दिश्य' । २ कर 'प्रकाशयितव्यस्तु ।' ३ अनयोः, ख० नानयोः ।