________________
६२
न्यायविन्दुः वा प्रतिपादितं भवेति । तस्माल्लिङ्गस्य स्वरूपं व्याख्येयं त. प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकः शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दमवश्यं धक्तव्यं दर्शयन्ननुमानशब्देनोक्तवानाचार्य इति परमार्थः । परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह
तद्विविधं प्रयोगभेदात् ।। तद्विविधमिति'। तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तद्विविधम् । कुतो द्विविधमित्याह । प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगोऽर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदाद्विविधमनुमानम् । तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह
साधर्म्यवद्वैधर्म्यवच्चेति । समानो धर्मो यस्य सोयं सधर्मा तस्य भावः साधर्म्यम् । विसदृशो धर्मोऽस्य विधर्मा विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधर्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधय॑मुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमभिधेयं तत्साधर्म्यवत् । यथा यत्कृतकं तदनित्यं यथायघटः । यथा च कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टा
१ पदमिदं व पुस्तक एवोपलभ्यते । २व्याख्येयम्, ख० च व्याख्येयम् । . ३ पाक्यमिदं ख० पुस्तके नोपलभ्यते । ४ साधर्म्यवद्वैविध्यवञ्चति । ५ धर्मोऽस्य, क. "यव्य" (अशुद्धः ) “यस्य" इत्यस्य स्थाने, ख० धर्मोस्य।
६ ख० पुस्तके मध्यस्थं पाठं त्यक्त्वा 'साधर्म्यमभिधेयं यस्य तु वैधय॑मभिधेयम् ।' इति पाठो विद्यते ।
७क० शब्दः। त्यत्र।