________________
-
A
अथ तृतीयपरिच्छेदः। स्वार्थपरार्थानुमानयोः स्वार्थ ब्याख्याय परार्थ व्याख्यातुकाम आह
त्रिरूपलिङ्गाख्यानं पराथोनुमानम् । त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाण्यन्वयव्यतिरेकपले, धर्मत्वसंज्ञकानि यस्य तत्तिरूपम् । त्रिरूपं च तल्लिङ्ग च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेनेति त्रिरूप लिङ्गमित्याख्यानम् । किं पुनस्तद्वचनम् । वचनेन हि त्रिरूपं लिजमाख्यायते । परस्मायिदं परार्थम् ।
ननु चं सम्यग्ज्ञानात्मकमनुमानमुक्तम् । तत्किमर्थ संप्रति वचनात्मकमनुमानमुच्यत इत्याह ।
___ कारणे कार्योपचारात् । कारणे कार्योपचारादिति त्रिरूपलिङ्गाभिधानात्तिरूपलिङ्गस्मृतिरुत्पद्यते स्मृतेश्चानुमानम् । तस्यानुमानस्य परंपरया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्कारणे वचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात्कारणं वचनमनुमानशब्देनोच्यते । औपचारिकं वचनमनुमानं न मुख्यमित्यर्थः । न च यावत्किचिदुपचारादनुमानशब्देन वक्तुं शक्यं तावत्सर्व व्याख्येयम् । किं त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य व्याख्येयत्वानिमित्तं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतमनुमानस्य निमित्तं भवति परेण १ तल्लिङ्गं, क० लिङ्गं । २ पाठोऽत्र क० पुस्तके नैवोपलभ्यते । ३ औपचारिकम् , क० औपचारकम् ।