SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भ्यायविन्दुः लक्षणा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति । विप्रकृष्टस्त्रिभिर्देशकालस्वभावविपकर्यस्याविषयः सा विप्रकृष्टविषयेति संशयहेतुः । किस्वभावा सेत्याह। प्रत्यक्षानुमाननिवृत्तिलक्षणं स्वभावो यस्याः सा प्रत्यक्षानुमाननिवृत्तिलक्षणा ज्ञानज्ञेयस्वभावेति यावत् । ननु च प्रमाणात्ममेयसत्ताव्यवस्था । ततः प्रमाणाभावात्प्रमेयाभावप्रतिपत्तियुक्तेत्याह । प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमान कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणे प्रमेयस्य कारणं नापि व्यापकमतः प्रमाणयोनिवृत्तावप्यर्थस्य प्रमेयस्य निवृत्तिर्न सिध्यति । ततोऽ सिद्धेः संशयहेतुरदृश्यानुपलब्धिः । न निश्चयहेतुः । यत्पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति तयुक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति। न तु कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात्ममाणात्प्रमेयसत्ता व्यवस्थाप्या । न प्रमाणाभावात्ममेयाभावव्यवस्थेति ॥ इति द्वितीयः परिच्छेदः इति न्यायविन्दुटीकायां द्वितीयः परिच्छेदः समाप्तः । १ पदमिदं ख० पुस्तके नैवोपलभ्यते। २ लक्षणा, क. लक्षणा।नशान। ३ नतु, बन च।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy