SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिच्छेदः दृश्यानुपलब्धेरेवेति । एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः। कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितकार्यकारण. भावः । व्यापकाभिमताभावे च व्याप्याभावे निश्चिते निश्चितो व्याप्यव्यापकभावः। तत्र व्याप्यव्यापकभावप्रतीतेनिमित्तमभावः प्रतिपत्तव्यः। इह गृहीते वृक्षाभावे हि शिंशपात्वाभावप्रतीतौ प्रतीतो व्याप्यव्यापकभावः । अभावप्रतिपत्तिश्च सर्वत्र दृश्यानुपलब्धेरेव । तस्माद्विरोधं कार्यकारणभावं व्याप्यव्यापकभावं च स्मरता विरोधकार्यकारणभावव्याप्यव्यापकभावविषयाभावप्रतिपत्तिनिबन्धनं दृश्यानुपलब्धिः स्मर्तव्या । दृश्यानुपलब्ध्यस्मरणे विरोधादीनामस्मरणम् । तथा च सति न विरुद्धादिविधिप्रतिपेधा. भ्यामितराभावप्रतीतिः स्यात् । विरोधादिग्रहणकालभाविन्यां घ दृश्यानुपलब्धाववश्यस्मर्तव्यायां तत एवाभावप्रतीतिः । तत्र यद्यपि संप्रति नास्ति दृश्यानुपलब्धिर्विरोधादिग्रहणकाले त्वासीत् । या दृश्यानुपलब्धिः संप्रति स्मर्यमाणा सेवाभावप्रतिपत्तिनिबन्धनम् । ततः संप्रति नास्ति दृश्योपलब्धिरित्यभावसाधनस्वेन श्यानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादिप्रयोगाः। विरुद्धविधिना कारणादिनिषेधेन च यतो दृश्यानुपलब्धिराक्षिसा ततो दृश्यानुपलब्धेरेव कालान्तरवृत्तायाः स्मृतिविषयभूताया अभावप्रतिपत्तिः । अमीषां च प्रयोगाणां दृश्यानुपलब्धावन्तर्भावः । तदेनन सर्वेण दृश्यानुपलब्धावन्तभावो दशानामनुप. लब्धिप्रयोगाणां पारंपर्येण दर्शित इति वेदितव्यम् । उक्ता दृश्यानुपलब्धिरभावेऽभावव्यवहारे साध्ये प्रमाणम् । अदृश्यानुपलब्धिः किंस्वभावा किंव्यापारा चेत्याह विप्रकृष्टविषयानुपलब्धिः प्रत्यक्षानुमानानिवृत्ति१ पदमिदं स्व. पुस्तके न विद्यते । .२ सम्प्रति नास्ति, ख. सम्प्रतितनी।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy