SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः ५८ प्राप्तानां दृश्यानामेव से प्रतिषेधस्तस्मादृदृश्यानुपलब्धावन्तर्भावः । कुत एतद्दृश्यानामेवेत्याह । स्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्स्वभावविरुद्ध आदिर्येषां तेषामुपलब्ध्या कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्मादृदृश्यानामेव प्रतिषेध इत्यर्थः । यदि नाम स्वभावविरुद्धाद्युपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तस्तथापि कथं दृश्यानामेव प्रतिषेध इत्याह । उपलब्धिरित्यादि । अत्रापि चकारो हेत्वर्थः । यस्माद्ये विरोधिनो व्याप्यव्यापकभूताः कार्यकारणभूताश्च ज्ञातास्तेषामत्रश्यमेवोपलब्धिरुपलब्धिपूर्वा चानुपलब्धिर्वेदितव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव । तस्मात्स्वभावविरुद्धायुपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः । बहुषु चोद्येषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारी हेत्वर्थो भवति । यस्मादिदं चेदं च समाधानमस्ति तस्मात्तत्तच्चोद्यमयुक्तमिति चकारार्थः । कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह अन्येषां विरोधकार्यकारणभावासिद्धि: ॥ ४९ ॥ उपलब्ध्यनुपलब्धिमद्भ्योऽन्येऽनुपलब्धा एव ये तेषां विशेधश्व कार्यकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य व्यापकस्याभावेन सिध्यति यस्मात्ततो विरोधिकार्यकारणभावाभावासिद्धेः कारणादुपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः । उभयवन्तश्च दृश्या एव । तस्माद्द्श्यानामेव प्रतिषेधः । तदयमर्थः । विरोधैः कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्व १ दृश्यानामेव, ख० दृश्यमानानामेव । २ पदमिदं स्व० पुस्तके न विद्यते । ३ विरोधः, ख० विरोधश्च ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy