________________
द्वितीयपरिच्छेदः गभेदः। शब्दश्च परार्थानुमानमित्याशङ्कयाह । प्रयोगदर्शनेत्यादि। प्रयोगाणां शास्त्रघटितानां दर्शनमुपलम्भः । तस्याभ्यासः पुनः पुनरावर्तनम् । तस्मानिमित्तात्स्वयमपीति मतिपत्तुरात्मनोऽप्येवमित्यनन्तरोक्तेन क्रमेण व्यवच्छेस्य प्रतिषेधस्य प्रतीतिर्भवतीति। इति शब्दस्तस्मादर्थे । तदयमर्थः । यस्मात्स्वयमप्येवमनेनोपायेन प्रतिपद्यते प्रयोगाभ्यासात्तस्मात्स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमान निर्देशः । यत्पुनः परप्रतिपत्तावेवोपयुज्यते तत्परार्थानुमान एव वक्तव्यमिति ।
ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव प्रतिषेधः दृश्यनिषेधे स्वभावानुपलम्भप्रयोगप्रसङ्गात् । तथा च सति न तेषां दृश्यानुपलब्धेनिषेधस्तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावतभाव इत्याह
सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनुपलब्धिश्व वेदितव्या ||४||
अभावश्च तस्य च व्यवहारोऽभावव्यवहारौ । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मासर्वत्रानुपलब्धौ सत्यां येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षण
१ शब्दश्च, ख० शम्दस्तु। २०घटितानाम् , ख० परिघटितानाम् । ३ इति पदं ख०पुस्तके न विद्यते। ४ प्रतिषेधः, ख० निषेधः। ५ तस्य च व्यवहारः, सन्तपहार। पदामिदं खं० पुस्तके नैवोपलभ्यते ।