SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुः रणसदृशाश्च सर्व एवेति दशग्रहणमन्तरेण सर्वग्रहणे क्रियमाणे प्र. युक्तोदाहरणकात्स्न्यै गम्येत । दशग्रहणातूदाहरणकात्स्न्येऽवगते सर्वग्रहणमतिरिच्यमानमुदाहृतसदृशकात्यावगतये जायते । ते स्वभावानुपलब्धौ संग्रह तादात्म्येन गच्छन्ति । स्वभावानु. पलब्धिस्वभावा इत्यर्थः। ननु च स्वभानुपलब्धिप्रयोगाद्भिद्यन्ते कार्यानुपलब्ध्यादयस्तत्कथमन्तर्भवन्तीत्याह पारंपर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः। ___ प्रयोगभेदे ऽपि । प्रयोगस्य शब्दव्यापारस्य भेदेऽपि अन्त. भवन्ति । कथं प्रयोगभेद इत्याह । अर्थान्तरविधीत्यादि । प्रतिषेध्यादैर्थादर्थान्तरस्य विधिरुपलब्धिः । स्वभाविरुद्धायुपलब्धिप्रयोगेषु प्रतिषेधः । कार्यानुपलब्ध्यादिप्रयोगेष्वर्थान्तरविधिनार्थान्तरप्रतिवेधेन च प्रयोगा भिद्यन्ते । यदि प्रयोगान्तरे. वर्थान्तरविधिप्रतिषेधौ कथं तन्तिर्भवन्तीत्याह । पारम्पर्ये. णेति । प्रणालिकयेत्यर्थः । एतदुक्तं भवति । न साक्षादेते प्रयोगा दृश्यानुपलब्धिमभिदधति । दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधिनिषेधं वाभिदधति । ततः प्रणालिकयामीषां स्वभावानुपलब्धौ संग्रहो न साक्षादिति । यदि प्रयो. गभेदेन भेदः परार्थानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयो. १ दशग्रहणात्तूदाहरण, ख० दशग्रहणोदाहरण । २ अर्थान्तरविधीत्यादि, लिखितपुस्तकयोः, अर्थान्तरविधीति । ३ प्रतिषेध्यादर्थादर्थान्तरस्य, ख० प्रतिषेध्यादर्थान्तरस्या।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy