________________
द्वितीयपरिच्छेदः बन्धी पुरुषो रोमहर्षादिविशेषयुक्तपुरुषः । तद्वान्न भवतीति सा. ध्यम् | धृमादिति हेतुः । रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः । कारणस्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः । वन्हेस्तु प्रत्यक्षत्वे कारणविरुद्धोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वेऽयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्रं दूरस्थस्य प्रतिपत्तुदहनशीतस्पर्शगेमहादिविशेषा अप्रत्यक्षाः स. न्तोऽपि धूमस्तु प्रत्यक्षो यत्र तत्रैतत्प्रमाणम् । धूमस्तु यादृश. स्तस्मिन्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वन्हेरनुमापकः स इह ग्राह्यः । धूममात्रेण तु वन्हिमात्रेऽनुमितेपि न शीतस्पर्शनिवृत्तिर्नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्यते न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ ११ ॥
यद्येकः प्रतिषेधतुहेतुरुक्तः कथमेकादशाभावहतव इत्याहइमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः
___स्वभावानुपलब्धौ संग्रहमुपयान्ति ।
इमेऽनुपलब्धिप्रयोगाः । इदमानन्तरप्रयोगान्ता निर्दिष्टाः । तत्र कियतामपि ग्रहणे प्रसक्त आह । कार्यानुपलब्ध्यादय इति । . कार्यानुपलब्ध्यादीनामपि त्रयाणां चतुर्णा वा ग्रहणे प्रसक्ते सत्याह । दशेति । दशानामप्युदाहृतमात्राणां ग्रहणप्रसङ्गे सत्याह । सर्व इत्येतदुक्तं भवति । अप्रयुक्ता अपि प्रयुक्तोदाह
१ विशेषयुक्त०, ख. विशेषगुणयुक्त । २ रोमहर्षादि०, ख० रामहर्ष। ३ तत्र, क. यत्र । ४ तस्मिन्देशे, ख० तदेशे। ५ पदमिदं क. पुस्तके न विद्यते । ६ 'विशेष' इति पाठो ख. पुस्तके न विद्यते । ७ पाठोऽयं क० पुस्तके नास्ति। ८ प्रयोगान्ताः, क० प्रयोक्तांन ( अशुद्धः ), ख. प्रक्रांता। ९ सत्याह, क. त्याह ( अशुद्धः)। १० ख० पुस्तके 'सति' इति पाठो न विद्यते ।