________________
५४. न्यायविन्दुः
प्रतिषेध्यस्य यत्कारणं तस्य याविरुद्धं तस्योपलब्धेरुदाहर णम् । यथेति । अस्येति धर्मी । रोम्गां हर्ष उद्भेदः स आदिर्येपां दन्तवीणादीनां शीतकृतानां ते विशिष्यन्ते तदन्येभ्यो भयश्रद्धादिकृतेभ्य इति रोमहर्षादिविशेषाः । ते न सन्तीति साध्य. म् । दहन एव विशिष्यते तदस्मादहनाच्छीतनिवर्तनसामर्थ्यनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो दहनविशेषो यस्य स तथोक्तस्तस्य भावस्तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेषाश्चादृश्यास्तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या । शीतस्पर्शस्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्विदूरादहनं पश्यति । शीतस्पर्शस्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणविरुद्धोपलब्ध्याभावः प्रतिपद्यत इति । तत्रास्याः प्रयोगः ॥ १०॥ कारणविरुद्धकार्योपलब्धिर्यथा । न रोमहर्षादिविशेष
युक्तपुरुषवानयं प्रदेशो धूमादिति । प्रतिषेध्यस्य यत्कारणं तस्य यद्विरुद्धं तस्य यत्कार्यं तस्योपलब्धिरुदाहर्तव्या । यथेति । अयं देश इति धर्मी । योगो युक्तं रोमहर्षादिविशेषैर्युक्तं रोमहर्यादिविशेषयुक्तम् । तस्य सं.
१ विशिष्यन्ते, ख० विशेष्यन्ते । २ विशिष्यते, ख० विशेष्यते । ३ पदमिदं ख० पुस्तके नैवोपलभ्यते । ४ दहनविशेषस्यैव शीतानवृत्तौ कारणत्वात् ,न दहनसामान्यस्य । ५ क० भाव ( अशुद्धः ), ख० भावम् । ६ कार्य, मुद्रितपुस्तक 'कार्थे' ( अशुद्धः ) ७ देशः, ख० प्रदेशः । ८ पदमिदं ख० पुस्तके नोपलभ्यते ।