________________
प्रथमपरिच्छेदः त्राय हेतुः । तयोदृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धियतः प्रयोक्तव्या । तथा चं सत्यभावसाधनीयम् । दूरवर्तिनश्च प्रति. पत्तुस्तुपारस्पर्शः शीतस्पर्शविशेषः । शीतमात्रं च परोक्षम् । वद्विस्तु रूपविशेषाद्रस्थोऽपि प्रत्यक्षः। ततो वह्नः शीतमात्रामा वः । ततः शीतविशेषतुषारस्पाभावनिश्चयः । शीतविशेषस्य शीतसामान्यन व्याप्तत्वादिति विशिष्टविषयेऽस्याः प्रयोगः ॥८॥ कारणानुपलब्धियथा । नात्र धूमोऽग्न्यभावादिति ।
प्रतिषेध्यस्य यत्कारणं तस्यानुपलब्धेरुदाहरणम् । यथेति । अत्रेति धर्मी। न धूम इति साध्यम् । वन्ह्य सत्वादिति हेतुः। यत्रकार्य सदपि दृश्यं न भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृ. श्यानुपलब्धिमिका । ततोऽयमप्यभावसाधनः । निष्कन्पाय. तसलिलरिते हृदे हेमन्तोचितवाप्पोद्गमे विरले संध्यातमसि सति सन्नपि तत्रं धूमो न दृश्य इति कारणानुपलब्ध्या प्रतिषध्यते । वद्भिस्तु यदि तस्याम्भस उपरि प्लवमानो भवेज्ज्वलितो रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्त्विन्धनमध्यनिविष्टो भवेतत्रापि दहनाधिकरणामिन्धनं प्रत्यक्षमिति स्वरूपेणाधाररूपेण वा दृश्य एव वहिरिति तत्रास्याः प्रयोगः ॥ ९ ॥ कारणविरुद्दोपलब्धिय॑था । नास्य रोमहर्षादिविशेषाः
संनिहितदहनविशेषत्वादिति ।
१ पदमिदं ख० पुस्तक एव दृश्यते। २ पदामिदं ख० पुस्तके न दृश्यते। ३ विशिष्ट, ख० विशिष्टे । ४ दृश्यं न भवति, ख० अदृश्यं भवति । ५ पदमिदं ख० पुस्तके न विद्यते । ६ दृश्यः, ख. दृश्यते। ७ प्रतिषेध्यते, ख० प्रतिषिध्यते । ८ ज्वलितः, ख. प्रज्वलितः। ९ इन्धन, ख० वन ।