SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः दृश्यात्मत्वमभ्युपगम्य कर्तव्यः । यद्ययं दृश्यमानः पिशाचात्मा भवेत्पिशाचो दृष्टो भवेत् । न च दृष्टस्तस्मान्न पिशाच इति दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनोवा दृश्यस्यादृश्यस्य च तादात्म्यनिषेधः । तथा च सति यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव तद्वत्सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधो दृश्यानुपलम्भा. देव । तथा चास्यैवंजातीयकस्य प्रयोगस्य स्वभागनुपलब्धावन्तर्भावः ॥ ६॥ कार्यविरूद्धोपलब्धिय॑था। नेहाप्रतिबद्धसामनि शीतकारणानि सन्त्यग्नेरिति । प्रतिषेध्यस्य यत्कार्य तस्य यद्विरुद्धं तस्योपलब्धेरुदाहरणम्। यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां शीतजननं प्रति नै तानि सन्तीति साध्यम् । वढेरिति हेतुः । यत्र शीतकारणान्यदृश्यानि शीतस्पोऽप्यदृश्यस्तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिदृश्यानुपलब्धिर्वा गमिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्व दृस्स्थत्वा. त्पतिपत्तुर्वद्विर्भास्वरवर्णत्वाद्र्ादपि दृश्यस्तत्रायं प्रयोगः ॥७॥ व्यापकविरूद्धोपलब्धिर्यथा। नात्र तुषारस्पर्शोऽग्नेरिति । प्रतिषेधस्य ययापकं तेन याविरुद्धं तस्योपलब्धिरुदाईतव्या । यथेति । अत्रेति धर्मी । तुषारस्पर्शो नेति साध्यम् । वैवेरिति हेतुः। यत्र व्याप्यस्तुषारस्पर्शो व्यापकश्च च शीतस्पर्शी न दृश्यस्त. १ यद्ययं, ख० यद्ययं घटः। २ प्रतिषेधः, ख० निषेधः । ३ न तानि सन्तीति, ख. तानि न संती ( अशुद्धः)। ४ बढेः, ख० अग्नेः।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy