________________ प्रथमपरिच्छेदः - प्रतिषेध्यस्य यद्विरुद्धं तेन व्याप्तस्य धर्मान्तरस्योपलब्धिरुदार्तिव्या / यथेति / ध्रुवमवश्यं भवतीति ' ध्रुवभावी नेतिध्रुवमावित्वनिषेधः साध्यः / विनाशो धर्मी / भूतस्यापि भावस्येति धर्मिविशेषणम् / भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्येत्यपि शब्दार्थः / जननी. देतोरन्यो हेतुत्वन्तरं मुद्रादि तदपेक्षते विनश्वरः / तस्यापे. क्षणादिति हेतुः / हेवन्तरापेक्षणं नामांध्रुवभावित्वेन व्याप्तम् / यथा वाससि रागस्य रोनादिहेत्वन्तरापेक्षणध्रुवभावित्वेन व्यातम् / ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम् / विनाशश्च विनश्व. रस्वभावात्मा हेत्वन्तरापेक्ष इष्टः / ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद्धृवभावित्वनिषेधः / इह ध्रुवभावित्वं नित्यत्वमध्रुवभावित्वं चानित्यत्वम् / नित्यत्वानित्यत्वयोश्च परस्परपरिहारेणावस्थानादेकत्र विरोधः / तथा च सति परस्परपरिहारवतोदेयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः। तादा. त्म्यनिषेधश्च दृश्यतयाभ्युपगतस्य संभवति / यत एवं तादात्म्यनिषेधः क्रियते यद्ययं दृश्यमानो नित्यो भवेनित्यरूपो दृश्येत। न च नित्यरूपो दृश्यते / तस्मान्न नित्यः / एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मत्वमभ्युपगम्य प्रतिषेधः कृतो भवति / वस्तुनोऽप्यदृश्यस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते 1 पाठोऽयं ख. पुस्तके न विद्यते। 2 जननात्, ख० जनकात् / 3 विनश्वरः / तस्य, क० विनश्वरस्य / 4 नामाध्रुव० ख० माध्रुव० / 5 रअनादि०, ख० रजकादिः / 6 इदं पदं ख० पुस्तके न विद्यते / 7 दृश्यतया, क० तया। 8 यतः, क० यः। 9 दृश्यमानात्मत्वं, ख० दृश्यमानात्मकत्वम। 10 यदि,ख' यदैव / 11 दृश्यघटात्मत्व,ख. दश्यघटात्मकत्व.