________________ न्यायविन्दुः प्रतिषेध्यस्य स्वभावेन विरुद्धस्योपलब्धिरुदाहियते / यथेति / अत्रेति धर्मी / न शीतस्पर्श इति शीतस्पर्शप्र. तिषेधः साध्यः / वन्हेरिति हेतुः / इयं चानुपलब्धिस्तत्र प्रयो. क्तव्या यत्र शीतस्पर्शोऽदृश्यः। दृश्ये दृश्यानुपलब्धिप्रयो. गात् / तस्माद्यत्र वर्णविशेषाद्वान्हदृश्यः शीतस्पर्शो दूरस्थत्वात्स. अप्यदृश्यस्तत्रास्याः प्रयोगः // 4 // विरुद्धकार्योपलब्धिय॑था / नात्र शीतस्पर्टी धूमादिति / प्रतिषध्येन यद्विरुद्धं तत्कार्यस्योपलब्धिमिका / यथेति / अत्रेति धर्मी) न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः / धूमादिति हेतुः / यत्र शीतस्पर्शः सन्दश्यः स्यात्तत्र दृश्यानुपलब्धिर्गमिका / यत्र विरुद्धो वह्निः प्रत्यक्षस्तत्र विरुद्धोपलब्धिः / योरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते / तत्र संमस्तापवरकस्थं शीतं निवर्तयितुं समर्थस्याग्नेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमपवरकात्पश्यति तदा विशिष्टाद्वद्वेरनुमिताच्छीतस्पर्शनिवृत्तिनुमिमीते / इह दृश्यमानद्वारप्रदेशसहितः सर्वावरकाभ्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात्पूविद्रष्टव्यः // 5 // विरुडव्याप्तोपलब्धिर्यथा / न ध्रुवभावी भतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति / १पाठोऽयं ख० पुस्तके नैवोपलभ्यते। २क० पुस्तके 'इति' इत्यसंगृह्य 'न शीतस्पर्श' इत्यशुद्धो पाठो विद्यते। 3 दृश्ये, क० दृश्यो, ख० दृश्ये तु / 4 दूरस्थत्वात्, ख० दूरत्वात्। 5 विरुद्ध का विरोधः। 6 तत्र, क० यत्र / ७निवृत्तिमनुमिमीते, क० निवृत्तिर. तुमीयते। 8 सर्वापवरक, ख० सर्वेपवर /