________________ प्रथमपरिच्छेदः भित्तिपरिक्षिप्तं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति / तस्माद्देश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वन्यभावप्रतीतिसाम. •यातो धर्मी न दृश्यमान एव / इहति तु प्रत्यक्षर्निर्देशो ह. श्यमानभागापेक्षो न केवलमिहैव दृश्यादृश्यसमुदायो धर्म्यपि त्वन्यत्रापि / शब्दस्य क्षणिकत्वे साध्ये कश्चिदेव शब्दः प्रत्यक्षोऽन्यस्तु परोक्षस्तद्वदिहापि | यथा चात्र धर्मी साध्यप्रतिपत्त्य. धिकरणभूतो दृश्यादृश्यावयवो दर्शितस्तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः // 2 // व्यापकानुपलब्धिर्यथा / नात्र शिंशपा वृक्षाभावादिति। प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मस्तस्यानुपलब्धि. रुदाहियते। यथेति / अत्र धर्मी। न शिंशपेति शिंशपाभावः साध्यः। वृक्षस्य व्यापकस्याभावादिति हेतुः / इयमप्यनुपलब्धिा . 'प्यस्य शिंशपांत्वस्यऽदृश्याभावे प्रयुज्यते / उपलब्धिलक्षणमाप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका / तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नती देशौ भवतस्तयोरेकस्तरुगहनोपेतोऽपरश्चैकशिलाघटितो निक्षकक्षः / द्रष्टापि तत्स्थान्वृक्षान्पश्यनपि शिंशपादिभेदं नै यो विवेचयति / तस्य वृक्षत्वं प्रत्यक्षमप्रत्यक्ष शिंशपात्वम् / स हि निर्वृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्वादृश्यानुपलम्भादवस्यति / शिंशपात्वाभावं तु व्यापकस्य वृक्षस्याभावादिति / तादृशे विषयेऽस्या अभावसाधनाय प्रयोग // 3 // स्वभावविरुद्धोपलब्धिय॑था। नात्र शीतस्पर्शोऽग्नेरिति / 1 दृश्यमानादृश्यमानाकाशदेशावयवः, क. दृश्यमानाकारी अशुद्धः) देशावयवः। २शिंशपात्वस्य, ख. शिंशपात्व०। न यः, ख० योन।. ४.ताशे, क० तारश।