________________ 48 न्यायविन्दुः लक्षणप्राप्तस्यानुपलब्धेरिति / प्रतिषेध्यस्य यः स्वभावस्तस्यानुपलब्धिः / यथेति / अत्रेति धर्मी न धूम इति साध्यम् / उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति हेतुः / अयं च हेतुः पूर्ववद्याख्येयः // 1 // कार्यानुपलब्धियथा। नेहाप्रतिबद्धसामर्थ्यानि धूम कारणानि सन्ति धूमाभावात् / प्रतिषेध्यस्य यत्कार्य तस्यानुपलब्धिरुदाहियते / यथेति / इहेति धर्मी / अप्रतिबद्धमनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि न सन्तीति साध्यम् / धूमाभावादिति हेतुः / कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्या दर्शनादप्रतिवद्धसामर्थ्यानामेवाभावः साध्यः / न त्वन्येषाम् / अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येवान्येषां प्रतिबन्धसंभवात् / कार्यानुपलब्धिश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते / दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका / तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यन्नपि चतुर्यु पार्थेष्वङ्गणभित्तिपर्यन्तं पश्यति / भित्तिपर्यन्तसमं चालोकसंज्ञकमाकाशदेशं धूमविविक्तं पश्यति / तत्र धूमाभावनिश्चयाउद्देशस्थेन वहिना जन्यमानो धृमस्तद्देशः स्यात् / तस्य च वन्हेरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः / तद्गृहाङ्गणदेशेन वन्हिना जन्यमानो धूमस्तद्देशः स्यात् / तस्मात्तद्देशस्य वढेरभावः प्रतिपत्तव्यः / तद्गृहाङ्गणदेशं 1 धवलगृह, ख०क्वलगृहस्य / 2 ख. पुस्तके नायं पाठो दृश्यते / 3 का तहांगणदेशेन भ ( अशुद्धः ) वह्निना / ख० तङ्ग्रहांगणन च / 4 'तद्देशः, इति पाठो ख• पुस्तके "तादृशः" इवावलोक्यते / स्थे