________________ द्वितीयपरिच्छेदः .47 दृश्यो यतोऽनुपलब्धस्तस्मानास्तीत्यतो दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्तयति न त्वकृतं करोतीत्यभावनिश्चयोऽनुपलम्भात्पत्तोऽ पि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यवहारप्रवर्तिन्युपलब्धिः / कस्मात्पुनरतीते वर्तमाने चानुपलब्धिमिकेत्याह तस्या एवाभावनिश्चयात् / तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् / अनागता ह्यनुपलब्धिः स्वयमेव संदिग्धस्वभावा / तस्या असिद्धाया नाभावनिश्चयोऽपि त्वतीतवर्तमानाया इति / संप्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह-- सा च प्रयोगभेदादेकादशप्रकारा / सा चैषानुपलब्धिरेकादशपकारा एकादश प्रकारा अस्या इत्येकादशप्रकारा / कुतः प्रकारभेदः प्रयोगभेदात् / प्रयोगः प्रयुक्तिः शब्दस्याभिधानव्यापार उच्यते / शब्दो हि साक्षात्कचिदर्थान्तराभिधायी क्वचित्प्रतिषेधान्तराभिधायी / सर्वत्रैव तु दृश्यानुपलब्धिरशब्दोपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् / प्रकारभेदानाह-- स्वभावानुपलब्धिर्यथा / नात्र धम उपलब्धि१ 'प्रवर्तिमी' इत्ययमेय पाठो ख० पुस्तके विद्यते। क० पुस्तके स्पष्टरूपेण 'प्रवर्त्तनमुपल' इति लिखितं यश 'प्रवर्त्तन्युपल.' इत्य. शुद्ध रूपे विकारितम्। __ 2 ख० पुस्तके 'एकादशप्रकारा एकादश प्रकारा अस्य इत्ये. कादशप्रकारा' इति लिखितम् / मुद्रितपुस्तके क० पुस्तके च एकादश प्रकारा अस्या इत्येकादशप्रकारा' इति पाठः। भेदात् , क. भेद।