SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः हः / तस्मान वर्तमान निषेध्यविशेषणममूढस्मृतिसंस्कारग्रहणम् / स्मृतिसंस्कारव्यभिचाराभावाद्वर्तमानस्यार्थस्य / अत एव वर्त. मानस्य चेति / चशब्दः कृतो विशेषणरहितस्य वर्तमानस्य विशेषणवतातीतेन समुच्चय यथा विज्ञायतेति। तदयमर्थोऽतीतोऽनुपलम्भः स्फुटं स्मर्यमाणः प्रमाणं चर्तमानश्च / ततो नासीदिह घटोऽनुपलब्धत्वान्नास्त्यनुपलभ्यमानत्वादिति शक्यं ज्ञातुम् / न तु न भविष्यत्यत्र घटोऽनुपलप्स्यमानत्वादिति शक्यं ज्ञातुम् / अनागताया अनुपलब्धेः सत्वसन्देहादिति / काल. विशेषोऽनुपलब्धेाख्यातः / . व्यापारं दर्शयति / अमावस्य व्यवहारो नास्तीत्येवमाकारं ज्ञानं शब्दश्चैवमाकारो निःशङ्कं गमनागमनलक्षणा च प्रवृत्तिः कायिकोऽभावव्यवहारः / घटाभावे हि ज्ञाते निःशङ्कं गन्तुमागन्तुं च प्रवर्तते / तदेवमेतस्य, त्रिविधस्याप्यभावव्यवहारस्य दृश्यानुपलब्धिः साधनी प्रवर्तिका / यद्यपि च नास्ति घट इति ज्ञानमनुपलब्धेरेव भवत्ययमेव चाभावनिश्चयस्तथापि यस्मा प्रत्यक्षेण केवलः प्रदेश उपलब्धस्तस्मादिह घटो नास्तीत्येवं च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः / तस्मात्प्रत्यक्षस्य केवलप्र. देशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः। किश्च / दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः। केवलमदृष्टानामपि सत्त्वसंभवात् / सत्त्वशङ्कया न शाकोत्यसवं व्यवहर्तुम् / अतोऽनुपलम्भोऽभाँवं व्यवहारयति / १'इति' इति पाठो स्व. पुस्तके न विद्यते। 2 स्फुट, क० स्फुटः। 3 अनुपलपस्यमानत्वात, क० अनुपलभ्यमानत्वात् / 4 निःशकं गमनागमन, खनिःशकगमागमः। 5 तदेवमेतस्य, ख. तदेव तस्य / 6 व्यवहारस्य, क व्यवहार० 17 इदं पदं क० पुस्तके नैव विद्यते।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy