________________ प्रथमपरिच्छेदः द्धेश्व संमग्रदर्शन सामग्रीकत्वेन प्रत्यक्षतया संभावितस्य निवृत्तिरवसीयते / तस्मादर्थज्ञान एव प्रत्यक्षस्य घटस्याभाव उच्यते / न तु निवृत्तिमात्रमिहाभावो निवृत्तिमात्रादृश्यनिवृत्त्यनिश्चयात् / ' ननु च दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् / सत्यमेवैतत् / केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेददृश्य एव भवेदिति दृश्यः संभावितस्ततो दृश्यानुपलब्धिनिश्चिता / दृश्यानु. पलब्धिनिश्चयसामर्थ्यादेव च दृश्याभावो निश्चितः। यदि हि दृश्यस्तत्र भवेदृश्यानुपलम्भो न भवेत् / अतो दृश्यानुपलम्भनिश्चयाददृश्याभावः सामर्थ्यादवसितो न तु व्यवहृत इति दृश्यानुपलम्भेन व्यवहर्तव्यः / तस्मादन्तिरमेकज्ञानसंसर्गि दृश्यमानं तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् / यथा चैकज्ञानससंगिणि प्रत्यक्षे घटस्य प्रत्यक्षत्वमारोपितमसतोऽपि तथा तस्मिन्नेकज्ञानसंसर्गिण्यतीते वर्तमाने चामूद. स्मृतिसंस्कारे च घटस्य तद्रूपमारोपितमसत इति द्रष्टव्यम् / अनेन दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्तिस्वभावोक्ता / सा च सेद्धा तेन न घटाभावः साध्योऽपि त्वभावव्यवहार इत्युक्तम्। ___अमुढोऽभ्रष्टो दर्शनाहितः स्मृतिजननरूपः संस्कारो यस्मिघटादौ स तथोक्तः / तस्यातीतस्य प्रतिपत्तृप्रत्यक्षस्येति सम्बन्धः / वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्यति सम्बन्धः / पमूढस्मृतिसंस्कारग्रहणन्तु नं वर्तमानविशेषणम् / यस्मादतीते टविविक्तप्रदेशदर्शने स्मृतिसंस्कारो मुढो दृश्यघटानुपलम्भे. श्ये च घटेऽमूढो भवेति / वर्तमाने च घटरहितप्रदेशदर्शने ' स्मृतिसंस्कारमोहः / अत एव न घटानुपलम्भे नापि घटे मो। 1 समप्र, ख० समय / 2 'तु' इति पाठो ख० पुस्तके नैवोपलभ्यते। 3 'न' इति पाठो ख० पुस्तके नवोपलभ्यते / ४स्मृतिसंस्कारः। ५इदं पदं ख० पुस्तके न विद्यते /