________________ 44. न्यायबिन्दुः ब्धिलक्षणप्राप्तेष्वित्यादि / इह प्रत्ययान्तरसाकल्यात्स्वभावविश पाचोपलब्धिलक्षणप्राप्तार्थः उक्त। घोरेकस्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते / तदिहानुपलब्धिलक्षणप्राप्तेष्विति प्रत्ययान्तरकैवल्यवन्त उक्ताः / देशकालस्वभावविप्रकृष्टेष्विति / स्वभावविशेषविप्रकृष्टा उक्ताः / देशश्च कालश्च स्वभावश्च तेर्विप्रकृष्टा इति विग्रहः / तेष्वभावनिश्चयस्याभावात् / सत्यपि वस्तुनि तस्याभाव इष्टः / कस्मानिश्चयाभाव इत्याह / तेषु प्रतिपत्तुरात्मनो यत्प्रत्यक्षं तस्य निवृत्तेः कारणान्निश्चयाभावः / यस्मादनुपलब्धिलक्षणमाप्तेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावस्तस्मात्सत्यपि वस्तुन्यात्मपत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः संभवः / ततो यथोक्ताय एव प्रतिषेधसिद्धिः / अथेयं दृश्यानुपलब्धिः कस्मिन्काले प्रमाणं किंस्वभावा किंव्यापारा चेत्याहअमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृ.. प्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी / प्रतिपत्तुः प्रत्यक्षो घटादिरर्थर स्य निवृत्तिरनुपलब्धिस्तदभावस्वभावेति यावत् / अत एवाभावो न साध्यः स्वभावानुपलब्धे. सिद्धत्वात् / अविद्यमानोऽपि च घटादिरेकज्ञानसंसगिणि भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यमानतया संभावितत्वात्प्रत्यक्ष उक्तः / अत एकज्ञानसंसर्गी दृश्यमानोऽर्थ. स्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते / ततो हि दृश्यमानादात्तबु. 1 "एकस्य" इति पाठा ख० पुस्तक एव विद्यते / क० पुस्तके मुद्रितपुस्तके च “एकैकस्य" इति पाठ उपलभ्यते। .2 स्वभावविशेषविप्रकृष्टाः, ख. स्वभाव विशेषरहिताः / 3 सातुः। 4 इदं पदं ख० पुस्तक एवोपलभ्यते / 5 'दृश्यमानतया" इति पाठो ख० पुस्तक एवास्ति / अन्यत्र सर्वत्र तु "डश्यतया" इत्येव पाठः। 6 संसर्गी, खसंसर्गात् /