________________
पार्श्व कटी च ]
नृ० ८० को०- उल्लास १, परीक्षण १
[ अथ पार्श्वम् । ] उन्नतं च नतं चैव प्रसारितविवर्तिते । तथापसृतमित्युक्तं पार्श्व पञ्चविधं बुधैः ॥
*
नितम्बां सभुजैर्व्यक्तमुन्नतैरुन्नतं मतम् । नियोज्यं नाटके तज्ज्ञैरपसर्पणकर्मणि ॥ ॥ इति उन्नतम् ॥ १ ॥
*
नतबाहुनितम्बांसं नतं स्यादुपसर्पणे ॥ ॥ इति नतम् ॥ २ ॥
*
प्रसारितं तूभयतो 'विस्तारात् स्यान्मुदादिषु ॥ ॥ इति प्रसारितम् ॥ ३॥
*
*
विवर्तिकत्रिकं पार्श्व विवर्तितं विवर्तनात् ॥ ॥ इति विवर्तितम् ॥ ४॥ • भवेदुपसृतं पार्श्व विवर्तितविवर्तमात् । निवर्तने प्रयोगोऽस्य नृत्य विद्भिश्चिकीर्षितः । प्रयोज्यमेतन्नाट्ये तु परावृत्तौ नटस्य तु ॥
॥ इत्यपसृतम् ॥ ५॥ ॥ इति पञ्चविधं पार्श्वम् ॥
*
[ अथ कटी। ]
कटी पञ्चविधा प्रोक्ता विवृत्तो द्वाहिता तथा । छिन्ना च कम्पिता चेति रेचितेत्यथ लक्षणम् ॥
विदधाति कटीं यां तु नृत्यगः प्रत्यगाननः । विवर्त्तितामभिमुखीं विवृत्ता सा विवर्तने ॥ ॥ इति विवृत्ता ॥ १ ॥
*
७८६
७८७८
७८८
७८९
७९०
७९१ 15
10
७९२ 20
७९३
1 BO पार्श्वा | 2 ABC नितंबोंस | 3 ABO °स्तारास्यान्मदादिषु । of सं. र. अ. ७ श्लो. ३०५ प्रसारितं तूभयतो विस्तारात् स्यान्मुदादिषु । of च Ms स्तारे स्यान्मु ( A. s-s ) Compare also ना. शा. (as-s) अ. १०, श्लो. १४ आयामनादुभयतः पार्श्वयोः स्यात् प्रसारितम् । and श्लो. १६ प्रसारितं प्रहर्षादौ । 4 ABO °र्तितवि' । 5 ABC द्वा' | 6 ABC त्यतल° । 7 ABC विवर्ता ।