________________
5
10
15
20
25
० को०- उल्लास १, परीक्षण १
एवमन्येsपि विज्ञेयाः खबुद्धया नृत्यकोविदैः ॥ ॥ इति हस्तप्रकरणम् ॥
*
[ अथ वक्षः । ]
पश्चधा सममाभुग्नं निर्भुग्रं च प्रकम्पितम् । उद्वाहितं च विज्ञेयं 'वक्षस्तल्लक्ष्म कथ्यते ॥
*
ससौष्ठवं समं ज्ञेयं चतुरस्राङ्गसंश्रयम् । प्रकृतिस्थमिदं वक्षः खभावाभिनये मतम् ॥ ॥ इति समम् ॥ १ ॥
*
. आभुग्रं शिथिलं निम्नं वक्षः स्याद्वर्वशोकयोः । व्याधौ विषादे मूर्च्छाभीलज्जादी संभ्रमेपि च । शीतच्छल्ययोश्चैव संप्रोक्तं भरतादिभिः ॥
wwwww
*
॥ इत्याभुग्नम् ॥ २ ॥ निम्नपृष्ठं च निर्भुग्नं बन्धुरं 'स्तब्धमप्युरः । गर्वोत्सेके प्रहर्षोक्तौ स्तम्भे विस्मयवीक्षणे । सत्यवाक्ये तथा माने प्रयोज्यं मृत्यकोविदैः ॥ ॥ इति निर्भुग्नम् ॥ ३ ॥ ,
*
अजस्रमूर्द्धमुत्क्षेपैः कम्पितं यत्प्रकम्पितम् । कामहासश्रमश्वासहिक्का 'दौ रोदनेऽपि च ॥
॥ इति प्रकम्पितम् ॥ ४ ॥
*
[ बच
७७८
७७९
७८०
७८१
७८२
७८३
सरलोत्क्षिप्तमाकम्पयुक्तमुद्वाहितं मतम् । उत्तुङ्गालोकने जृम्भा दीर्घोच्छ्वासादिके तथा ॥
॥ इत्युद्वाहितम् ॥ ५ ॥
॥ इति पञ्चधा वक्षः ॥
*
[ अथ स्तनौ । ]
उच्चावापाण्डुरौ श्यामौ मनापी (? सुपीनी) लोलिती' मनाक् । सङ्कुचद्वदनौ चेति स्तनौ[तु] षट् प्रकीर्तितौ । एतौ रसेषु भावेषु यथौचित्यं प्रयोजयेत् ॥
७८४
७८५
1 B वक्ष्य; वक्ष्यमूल्ल | 2 BC बन्धुरस्त । 3 BC स्तम्भविस्मय' | 4 BO °हिष्का' |
C
5 BG जृभा । 6 ABO श्यामामनापीलोलतौ । 7 ABO 'दनो | 8 ABO बोट् ।