SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७२८ 15 मृगको उल्लास १, परीक्षण १ [लंलितादयः वलिती पल्लवो चापि शीर्षणि ललितं विदुः। अपरे चातुरस्त्रेण शिरस्थावचलौ विदुः॥ ७५३ अपरे खटकावको शिरःप्राप्य शनैः शनैः। अन्योऽन्यस्य विलग्नानौ ललितौ संचचक्षिरे ॥ इति ललितौ ॥ ३१॥ वामदक्षिणभागस्थौ वरदाभयदौ करौ। आरालौ कटिपार्श्वस्थौ कथितौ वरदाभयौ ॥ इति वरदाभयौ ॥ ३२ ॥ द्वात्रिंशदेते संप्रोक्ताः समासात् नृत्यहस्तकाः। एते नृत्ये क्रमेणापि प्रयोज्या इति संमतिः॥ . ७५६ व्युत्क्रमेण प्रयोगेऽपि न दोषो मुनिशासनात् । अशीतिर्मिलिताः सर्वे त्रिविधा अपि हस्तकाः॥ ७९७ इह कश्चिद्विपश्चिद्यनिश्चिनोति करानिह । चतुःषष्टिमिता(? तान् तन्नो विचारपदवीमियात् ॥ यतो नाटीकते मानं मुनिमार्गात्परिच्युतम् । तथा हि भरताचार्यैः सप्तषष्टिरुदीरिताः॥ तन्मता सप्तषष्टिस्तान रत्नाकरकृदभ्यधात् । तन्मतस्यापकर्षेण चतुःषष्टिमिताः परैः॥ उक्ता गवेष्यमाणे यं तद्वाचोयुक्तिज़म्बुकी । 20... विचारसिंहभूते व न तिष्टति पदात्पदम् ॥ ७६१ तथा हि योक्ता युक्त्युत्था विशेषणविशेष्यता। करयोर्विप्रकीर्णाद्या न तदा चार्यसंमतम् ॥ ७६२ यतः कर] पृथक्त्वे न तेषामुद्देशलक्ष्मणी। मुनिनैव कृते तन्नो सुवचं यददो यथा ॥ ७६३ नीलमुत्पलमित्येष दृष्टान्तो विषमः खलु। यतोत्रायुतसंवन्धः प्रायो गुणिगुणाश्रयः॥ ७६४ द्रव्ययोस्तत्र संबन्धो युतसिद्धः स्मृतो बुधैः। अन्योन्यनिरपेक्षेषु वस्तिकायेषु कथ्यताम् ॥ ७६५ मल्लयोरिव को स्यातां कयोस्तत्र विशेषणम् । 30 भिन्नगामित्वमनयोर्न समानमिहेष्यते ॥ ७६६ 1 ABO°वेक्ष। 2 BO °सिंभूते । 3 b०भिष्टति। 4 B0 °दावायस 1 5 KBO पृक्त्वेन।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy