SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७४२ ৩৯৯ ७४४ ७४५० ७४६ मुष्टिकस्वस्तिकादयः] नृ०र० को०-उल्लास १, परीक्षण १ खपार्श्वेशलता प्राप्तो हृदयमण्डलाकृतिः। प्रामुयादिति संप्रोक्तावुरःपार्था मण्डलो॥ इत्युरः पार्थाधमण्डलौ ॥ २५॥ विधाय क्रमतो हस्तावरालमरपल्लवौं । रेचितः खस्तिकाकारौ क्रिये ते खटकामुखौ ॥ अथवा शिखरौ मुष्टी कपित्थौ वा मुहुर्मुहुः। खस्तिकाकृतितां नीतौ मुष्टिकस्वस्तिको करौ॥ इति मुष्टिकस्वस्तिकौ ॥ २६ ॥ व्यावर्तनक्रियोपेतावश्लिष्टस्वस्तिको करौ। . मिथः परामुखीभूय यो गतौ पद्मकोशताम् ॥ नलिनीपद्मकोशौ तौ केचिल्लक्ष्मान्यथाजगुः । अन्योन्याभिमुखौ श्लिष्टमणिबन्धौ पृथग यदा ॥ पद्मकोशौ प्रकुर्वीत व्यावृत्तपरिवर्तने । नलिनीपद्मकोशौ तावथवा पद्मकोशयोः॥ व्यावृत्तिपरिवृत्तिभ्यामुपजानुगतेरिमौ । यद्वा विवर्तिौ पद्मकोशौ स्यातामिमौ पुनः। स्कन्धयोः स्तनयोः पार्श्वे जानुनोरपि तत्त्वतः॥ _ इति नलिनीपद्मकोशौ ॥ २७ ॥ उद्वेष्टितक्रियौ वक्षोदेशस्थावलपल्लवौ । ततः स्कन्धान्तिकं प्राप्य प्रस्थितावलपद्मकौ ॥ - ॥ इत्यलपमौ ॥ २८ ॥ ऊर्ध्वप्रसारितौ स्कन्धाभिमुखौ चलदङ्गुली। विवृत्तावलपद्मौ चावुल्वणौ भणितौ तौ ॥ . इत्युत्वणी ॥ २९ ॥ लताख्यौ वलितौ ज्ञेयौ खस्तिकीकृतकूर्परौ । अथ मूर्ध्नि विवृत्तौ तौ मुष्टिकखस्तिको मतौ ॥ अथवाऽन्योन्यलग्नाग्रावूर्ध्वगौ नम्रकूर्परौ । पृष्ठतः खटकावक्रो वलितो गदितौ करौ॥ इति वलितौ ॥ ३०॥ 15 ७४८ . ७४९२० ७५२ 1 ABO प्राको। 2 ABO उत्तर। 3 ABO °लवां ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy