________________
दोलादयः] न०र० को०-उल्लास १, परीक्षण १
कपित्थो हस्तको वापि दक्षवामेतरं करम्।. . मुकुलं वेष्टिते प्राहुस्तदान्यं निषधं परे । शास्त्रार्थस्य खीकरणे खीकृतार्थस्य धारणे । 'मान्यमेतदिदं वाक्यमित्युक्तौ पीडनेऽपि च । तथा समयशास्त्रोक्तसंकेतग्रहणेऽपि च ॥
॥ इति निषधः ॥७॥ दोले श्लथांसौ कर्तव्यौ पताको विरलाङ्गुली। लम्बमानौ नियोज्योऽयं मूर्छायां व्याधिखेदयोः॥ ६६१ संभ्रमे गर्वगमने कर्तव्यः पार्श्वदोलितः। मदे चैव यथायोगं स्तब्धो वा क्रियते करः॥ ६६२ 10
॥ इति दोलः ॥ ८॥ उत्तानो व्यक्तसंश्लिष्टकरभौ सर्पशीर्षको । स्यातां पुष्पपुटो नाम पुष्पाञ्जलिविसर्जने ॥ धान्यपुष्पफलादीनां ग्रहणे च समर्पणे। 'अर्धार्थिसंपदाने च तोयस्यानयनेऽपि च । पाणिपात्राशने राज्ञः प्रसादग्रहणे गुरोः॥
॥ इति पुष्पपुटः ॥९॥
15
६६५
६६५
परस्परोपरिगती सुसंश्लिष्टावधोमुखौ। ऊयागुष्ठौ पताको तौ भये(व) तां मकरे करे॥ क्रव्यादमत्स्यमकरद्विपीनां व्याघ्रसिंहयोः। नद्याः पूरे च बाहुल्ये प्रयोज्योऽयं विचक्षणैः॥
॥ इति मकरः ॥१०॥
25
कटिक्षेत्रे सर्पशीर्षों कुश्चन्कूर्परको यदा। गजदन्तस्तदा हस्तो ग्रहे स्तम्भस्य स स्मृतः॥ महाभारस्योद्बहने केचिदेनं प्रचक्षते । प्रथमं निषिधं तं च वरवध्वोः समेतयोः॥
1 AB0 मन्य । 2 AB0 अभ्यर्थिसंप्रदाने । of अर्धदाने Vipradasa in भ. को. पृ. ३७५। 3 ABO °पात्रशने । 4 B0 गृहे।