________________
10
नु०७ को उल्लास १, परीक्षण १ [स्वस्तिकादयः अरालाल्यौ पताको वा खटकामुखसंज्ञको । अन्योन्यमणि बन्धस्थावुत्तानौ वामपार्श्वगौ। हृदयक्षेत्रगौ वा स्तश्चेत्तदा खस्तिको मती॥ एवमस्तीति नारीणां भाषणे विच्युतः स तु । सागराकाशमुख्येषु विस्तीर्णेषु प्रयुज्यते ॥
॥ इति स्वस्तिकम् ॥ ४ ॥ अन्योन्याभिमुखौ स्यातां हस्तौ चेत् 'खटकामुखौ। खस्तिको मणिबन्धे वा 'खटकावर्धमानकः॥ उत्तानपादयं(?उत्तानः स्याक्य) सूर्योदयादौ प्रथमे मते। . प्रमाण(?प्रणाम) करणे पुष्पग्रथने सत्यभाषणे। ताम्बूलग्रहणे यूनोर्द्वितीये तिर्यगाननः॥ ६५२
॥ इति खटकावर्धमानः ॥५॥ 'सर्पशीर्षी पताको वा खस्तिको मणिबन्धगौ। परस्परस्कन्धदेशौ गतावुत्सङ्गसंज्ञके ॥ दक्षपार्श्वगतं यद्वा वामपार्श्वगतं नु वा। उत्सङ्गे केचिदिच्छन्ति खस्तिकं नृत्यकोविदाः॥ पार्श्वस्याभिमुखे यद्वा हस्तयोः पृष्ठके यंदा। कूर्परौ स्वस्तिकाकारौ उत्सङ्गे केचिदूचिरे ॥ अतिप्रयत्नसाध्येऽर्थे लीलाया ग्रहणे तथा । "पराकुखस्य शीते वा रोषामर्षकृते तथा। प्रार्थनानभ्युपगमे लज्जादावपि योषिताम् ॥
॥ इत्युत्सङ्गः ॥६॥ स्कन्धकूपरयोर्मध्यमन्योन्यस्य भुजौ यदा। ईषदूर्ध्वप्रदेशस्थौ गृहीतः "सर्पशीर्षकौ ॥ ६५७ तदा स्थानिषधो हस्त औत्सुक्यादौ नियुज्यते । गाम्भीर्यस्थैर्यगर्वादौ आचार्यैर्विनियुज्यते ॥ ६५८
1 ABO °ख्यो। 2 ABC °मंबस्थौ। 3 ABC खटिका। 4 ABC खेटका । 5 of सूर्योदयादावुत्तानः स्यादयं प्रथमे मते Vipradāsa quoted in भ. को. पृ. १५३। 6 of प्रणामकरणे ना. शा. अ. ६ श्लो. १३८ and Vipradasa. भ. को. पृ. १५६ । 7 ABC सप्तशीर्षो। 8 ABG स्वस्तिके। 9 ABC मृत्यको । 10 10 पुरासुखस्य। 11 ABO सप्त।
25