________________
幾
10
15
20
25
को०- उल्लास १, परीक्षण १
अलक्तकादिवस्तूनां चित्रकर्मण्यपीष्यते । पार्श्वाभिमुखहस्ताभ्यां दरिद्रस्य प्रकाशने ॥ भाषणे सद्वितीये स्यात् सरोषे वामहस्ततः । किञ्चिदग्रविवर्त्तेन तथान्येष्वपि युक्तितः ॥ ॥ इति संदंशः ॥ २३ ॥
*
अङ्गुष्टो मध्यमाग्रेण संलग्नः कुटिला यदा । तर्जन्यन्ये तलस्थे चेत्ताम्रचूडस्तदा करः ॥ शीये' विश्वासकार्ये च बालाहाने च भर्त्सने । ताले कलामुहूर्तादौ छोटिकादौ च शब्दवान् ॥ प्रसारितकनिष्ठां च मुष्टिमन्ये प्रचक्षते । ताम्रचूडं सहस्रादौ गणने विनियुज्यते । क्षिप्तमुक्ताङ्गुलिः प्रोक्तो विमुषोऽभिनये बुधैः ॥ ॥ इति ताम्रचूडः ॥ २४ ॥
॥ इति चतुर्विंशतिरयुतहस्ताः ॥
*
पताको विरलाङ्गुष्ठ उपधानः करो भवेत् । स्याचिन्ता निद्रयोरेष उपधानेऽपि युक्तितः ॥
॥ इत्युपधानः ॥ २५ ॥
*
aagraat यत्राधोगती संहतं पुनः । तर्जन्यादित्रयं स स्यात् सिंहास्यस्तत् खरूपतः । सिंहस्याभिनये स स्यात् मेलने द्रवचूर्णयोः ॥
॥ इति सिंहास्यः ॥ २६ ॥
*
संहताङ्गुलयो यत्र' मध्ये वर्तुलतात्मता' । कदम्बोऽसौ रसाखादे हस्तको विनियुज्यते ॥
॥ इति कदम्बः ॥ २७ ॥
*
पताकाटको यत्र मध्यमामूलसंश्रितः । निकुञ्चकोऽसौ स्वल्पार्थे वेदस्याध्ययने मतः ॥
॥ इति निकुञ्चः ॥ २८ ॥
*
[ ताम्रचूडादयः
६३०
६३१
६३२
६३३
६३४
६३५
६३६
६३७
६३८
1 BC यक्तितः । 2 ABC यै । 3 ABO चिता । 4 ABC मन्ते । 5 ABC मतां ।
1