________________
ऊर्णनाभादयः ] नृ० र० को०- उल्लास १, परीक्षण १
साङ्गुष्ठाङ्गुलयो यत्र संलग्नाग्राः सुसंहताः । ऊर्ध्वाः स मुकुलो ज्ञेयो मुकुलाकारपेशलः ॥ सुरार्चने भोजने च बलिकर्मणि कुड्मले । मुर्विकारय प्रकृतिं नीतो दाने त्वरान्विते ॥ कमलादेः प्रार्थनायां संख्यापञ्चकसूचने । सविधे कामिनीनां तु मुखस्थो विचुम्बने ॥ स्यादाच्छुरितकेऽप्येष रसभावविजृम्भितः । कामिनीकु कक्षादी सशब्दं नखलेखनम् । यदङ्गुलीपञ्चकेन तदाच्छुरितकं विदुः ॥ ॥ इति मुकुलः ॥ २१ ॥
*
पञ्चाप्यकुलयो यत्र पद्मकोशस्य कुञ्चिताः । ऊर्णनाभः स विज्ञेयः शिरःकण्डूयनादिषु ॥ चौर्येण वस्तुग्रहणे कुष्ठाद्यभिनयेन च । सिंहव्याघ्राद्यभिनये चिबुकक्षेत्रगौ च तौ । स्वस्तिकौ तु करौ कार्यों फलादेर्ग्रह एककः ॥ ॥ इत्यूर्णनाभः ॥ २२ ॥
*
'अरालाङ्गुष्ठतर्जन्यौ मिलिताग्रैौ तथा पुनः । तलमध्यो (?ध्ये) 'सनाग्निस्तः (१मनाग् न्यस्तः) सं कं (सं) वंशोऽभिधीयते ॥ अग्रजो मुखजचैव पार्श्वजश्चेत्ययं त्रिधा । तत्राग्रजः प्राङ्मुखः स्यान्मुखजः सम्मुखो भवेत् ॥ पार्श्वतः स्यात्पार्श्वमुखो विनियोगोऽधुनोच्यते । कुसुमच्छेदने वृन्तात् कण्टकोद्धरणे तथा ॥ सूक्ष्मप्रसूनावचये संदंशोऽग्रज उच्यते । वर्त्यञ्जनशलाकादिपूरणे मुखजो मतः ॥ विगित्युक्तौ तु रोषेण संदंशः पार्श्वजः शुभः । मणिमुक्ताप्रवालादौ गुणनिक्षेपणे मतः ॥ मणीनां वेधने चापि तत्त्वस्यापि प्रभाषणे । ध्याने निरूपणे सूक्ष्मत्र्यणुकादेस्तु घर्षणे ॥
६१८
६१९
६२०
६२२
६२३ 15
६२४
६२५
६२६
20
६२७25
६२८
६२९
1 ABO आरालाङ्गुष्ठतर्जन्यो । 2 cf. किंचिश्चेत्तलमध्यस्थस्तदा संदंश उच्यते ॥ सं. र. अ. ७ लो. १७६ ।