SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 10 ४६३ 15 नृ०० को०-उल्लास १, परीक्षण १ [आङ्गिकनृत्यक्रमे शिरोमेवाः अधर्म क्रमतोयं कृत्यत्रितयमुत्तमम् । लास्यताण्डवभेदेन त्रयमेतद् द्विधा मतम् ॥ ललनाललितैरङ्गरचनोपचितैः शुभैः। प्रयोगैः सुकुमारैर्यत् साधितं लास्थमत्र तत् ॥ लासः स्त्रीपुंसयोर्भावस्तत्राहीये तु तद्धिते । साधावस्ये(१ थे) लास्यशब्दः कामोल्लासनहेतुकः॥ मृदङ्गहारकरणचारीचरणकोमलः। ताण्डवं तद्भवेद्यत्तु प्राधान्येन प्रवर्तितम् ॥ विषमं विकटं लम्वित्यत्र तद्विषमं मतम्। . यदभ्यासवशाद्रजुभ्रमणादि प्रदश्यते ॥ विरूपवेषावयवव्यापार विकटं मतम् ।। करणैरश्चिताधैर्यत् प्रयुक्तं तद्भवेल्लघु ॥ ४६४ सङ्कीर्ण तद्भवेतृत्वं यदेतत्रयसङ्करात्।। सर्वेष्वभिनयेष्वत्र व्यापारैराङ्गिकैर्यतः॥ ४६५ उत्पद्यन्ते नृत्यमेदाः सप्रपञ्चा अनेकशः। अतः प्रयत्नतः सर्वान् तानहं वच्मि तस्वतः॥ अत्राङ्गाभिनयः साक्षादङ्गविज्ञानपूर्वकः । अतोऽङ्गनिचयं वक्ष्ये विस्तरालक्ष्मपूर्वकम् ॥ ४६७ यद्यप्यत्र प्रधानत्वे नृत्ये चरणकर्मणः। चरणादेः प्रकथनं युज्यतेऽङ्गनिरूपणे ॥ तथापि शिरसोऽङ्गानां प्राधान्यादधिकारतः। शास्त्रस्यास्य मनुष्यस्य शिरप्रभृतिवर्णनम् ॥ ४६९ यतो मौलेस्तु मनुजा वाश्चरण]तः सुराः। इति शिष्टाचारमूलं मौलितोगनिरूपणम् ॥ एवं शिष्टानुरोधेन यद्यप्यत्रोपवर्णितम् । शिरःप्रभृतिकाङ्गानां लक्षणं संग्रहस्तथा ॥ ४७१ तथापि नृत्ये चार्यादौ मुख्यत्वाचरणस्य च । तद्धेतुकत्वप्राधान्यादन्यस्य चरणादितः॥ ४७२ तत्राङ्गानि शिरो हस्तौ वक्षः पार्श्वे कटीतटम् । पावाविति षडुक्तानि 'भरताचार्यसंमते॥ ४७३ समं धुतं च विधुतमाधूतमवधूतकम् । कम्पिताकम्पितोत्क्षिप्ताधोगतानि च लोलितम् ॥ ४७४ 1 ABO कामल्ला । 2 ABC चार्यादे । 3 ABG °न्यस्ये। 4 A भरचा। . 20 ४६८
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy