________________
१०.२० को०-उल्लास १, परीक्षण १ [पूर्वरविधि तत् समयमात्यादिनान्दीमेक्समुखयम् । .. 'भरतादू क्षेयमत्रोक्तविस्तरः स्यान्महानिति ॥
॥ इति नान्दी॥
[शुष्कापकृष्टा ।] 5 . यत्र शुष्काक्षरैरेव धपकृष्टा तु या ध्रुवा।
यस्मादभिनयात् 'सूत्रं प्रथमं ह्यभिसार्यते ॥ तस्मात् शुष्कापकृष्टयं जर्जरश्लोकदर्शिका ।
॥ इति शुष्कापकृष्टा ॥
[पूर्वरङ्गविधिः। 10 रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥
नेयं चारीप्रचारं सहत इह मही न क्षमं वः प्लुतीनां
ब्रामं सन्म क चाशापदमिह भगवंस्ते भुजोत्क्षेपणानाम् । ब्रह्माण्डाघात भीत्या परिहर विषमं ताण्डवाटोपमेवं
नृत्यारम्भे भवान्या भवतु जनमुदेऽभ्यर्थितश्चन्द्रचूडः॥ २६९ वागङ्गाभिनयोपेतमिति पचमुदाहृतम् । शेष लक्षणमेतस्य भरतादवगम्यताम् ॥ ततश्चारीसंशं समं शृङ्गारचरणाद् भवेत् । रौद्रप्रचरणात्रापि [१दन] महाचारीति कीर्तिता॥ विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः। यत्र कुर्वन्ति संजल्पं तदत्र त्रिगतं मतम् ॥ प्रकृतस्यैव कार्यस्य सिद्धत्वस्थानुसूचकम् । उपायोपेयभावेन कार्यसिद्धिव्यपाश्रयम् ॥ कविनानालङ्कतं च वाक्यं यत्र प्रयुज्यते । सा स्यात् प्ररोचना नाम वस्तुप्रस्तावनाभिधा॥ एभिरङ्गैः प्रयुक्तैः स्यात् तत्तदैवतपूजनम् । केषाचिल्लक्षणं प्रोक्तमिहोदाहरणैः सह ॥ प्रयोगस्य फलं शेष लक्ष्मोदाहरणे तथा । भरतादवगन्तव्यं नेह विस्तरशङ्कया ।
॥ इति पूर्वरङ्गविधिः॥
25
..
.
२७६
1 ABC भरतान् । 2 ABC सूत्र । 3 ABO शुष्का च कृष्टा । - 4 B0 संबोस । 5 B0 ब्रह्माण्डघोत । 6 ABO °भ्यार्थित ।