________________
०२० को०-उल्लास १, परीक्षण १ [उत्थापना परिवर्तास्तु चत्वारस्तेषामाद्यस्थिते लये। द्वात्रिंशता कलानां स्यात् लये मध्ये द्वितीयकः॥ २१८ सोऽपि तावत् कलस्तावान् तृतीयोऽपि कलस्ततः।... तावानेव चतुर्थस्तु परं 'तस्याद्भुते लये ॥ ध्रुवेयं चतुरस्रा स्यादस्यां पाणित्रयं भवेत् । संनिपातैश्चतुर्भिः स्यात् परिवर्त इहैककः ॥ प्रथमे वा द्वितीये वा तृतीये संनिपातके। पूर्वस्मिन् परिवर्तेऽत्र वाद्यभाण्डपरिग्रहः। सूत्रधारप्रवेशोऽत्र द्वितीये परिवर्तके ॥ तत्पारिपार्श्वको स्यातां सभृङ्गारकजर्जरौ । . . . सपुष्पाञ्जलयः शुक्लवस्त्राः सुमनसस्त्रयः। कृतमङ्गलसंस्कारा वैष्णवस्थानके स्थिताः ॥ प्रविशेयुस्ततः सूत्रधारः पञ्चपदीं व्रजेत्। पक्षिणं चरणं पार्धाकान्तचार्या समुत्क्षिपेत् ॥ तालत्रयं ततः सूच्या वामं चरणमुत्क्षिपेत् । सद्वयः सूत्रधारोऽथ गत्वा पञ्चपदीं शनैः॥ २२४ रङ्गमध्ये पुष्पमोः पूजयेत् पद्मसंभवम् । नमस्कुर्यात् ततो देवं मनोवाकायकर्मभिः॥ कलामिः स्यात् षोडशभिः पञ्चपद्यां प्रवेशनम् । पुष्पाञ्जलिविमोक्षे तु कलाष्टकमुदीरितम् ॥ तावतैव तु कालेन द्वितीये परिवर्तके। नमस्कार्य देवतानां तृतीये परिवर्तके ॥ आक्रामेन्मण्डलं पूर्ण दक्षिणं पादमुद्धरन् । सूच्या सव्येन वक्षं च विद्वपक्षेण वामकम् । सूच्यैवैवं प्रकुर्वीत मण्डलस्य प्रदक्षिणम् ॥ आचम्य प्रोक्ष्य कर्तव्यं जर्जरग्रहणं ततः। अन्योन्यं पादयोर्वेधश्चतुष्कल उदाहृतः । प्रदक्षिणं चाष्टकलमाचामे निकलेन तु ॥
.
--
1480 सस्थाद्भुते। 2 ABO कलं।