________________
संग्रहः] नृ० २० को०-उल्लास १, परीक्षण १ चतुरस्रस्तथा यस्स्रः षड्विधः केचिदिच्यते । केषांचन मते मिश्रो द्वयं संमिश्रणान्मिथः ॥
*
[ पूर्वरङ्गाङ्गसंग्रहः । ]
अथाभिधास्यते सम्यक् पूर्वरङ्गाङ्गसंग्रहम् । प्रत्याहारोऽवतरणमाश्रवणारम्भवक्त्रपाणी च । परिघट्टनाथ संघोटनाथ मार्गासारितं च [१] ॥ आसारितोत्थापिन्यौ नान्दी शुष्का च कृष्टाह्वा । रहद्वारं चारी सैव महत्पूर्विका त्रिगतम् ॥ प्रस्तावनेति कथितान्येतान्यङ्गानि भारते पूर्वैः । अङ्गैरेभि'रिहाङ्गी 'निष्पन्नः पूर्वरङ्गोऽयम् । तेभ्यो नैवाभिन्नो भिन्नोऽपि प्रेक्ष्यते कचित् सद्भिः ॥
*
[ प्रत्याहारः । ] उत्थापनीप्रयोगे [च] प्राधान्येनोपकल्पिते । प्रत्याहाराचयं याता प्राच्योदीच्यां गतामत्र ।
*
अत्राश्रावणिकाद्यं यदङ्गषट्कं क्रमेणोक्तम् । देवस्तवार्थमपदं पदबद्धं वा द्विधा तदुद्दिष्टम् । अपदं तत्र तु गीतं निर्गीतं कीर्तितं तच ॥ यत् पदबद्धं गीतं तद्देवप्रीतिदं बहिर्गीतम् । तस्मात् पदैर्निबद्धं प्रयोज्यमाश्रावणादीह ॥
*
प्रायेण तु बहिर्गीतमन्तर्जवनिकागतैः । तन्त्री भाण्डकृतं तज्ज्ञैः प्रयोक्तव्यमतन्द्रितैः ॥ ततो जवनिकां हित्वा समस्तकुतपैः सह । नृत्य - पाठ्यकृतानि स्युः पूर्वरङ्गाङ्गकानि तु ॥ ततः पुनः प्रयोक्तात्र मन्द्रकादेस्तु मध्यतः । प्रयोज्यं किश्चिदेकं तु वर्द्धमानमथापि वा ॥ पूर्वरङ्गे प्रयुञ्जीत ततोऽन्याङ्गसमुच्चयम् । अथामीषां क्रमाद् वक्ष्ये लक्षणानि समासतः ॥ ज्ञेयः कुतपविन्यासः प्रत्याहारः स चेदृशः । 1 ABO अङ्गैरिमि० । 2 ABC निष्पनः । 3 ABO वक्षे |
१३८
१३९
१४०
१४१
१४३
१४४
१४५
5
१४२
010
१४८
io
15
20
१४६
१४७25